पृष्ठम्:श्रीवैखानसगृह्यसूत्रम्-भागः १.pdf/३६३

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

प्रथम: प्रश्न:]] श्रीवैखानसगृह्यसूत्रम् माधमात्रप्रमाणं गृहीतेनाज्येन जुहोति । जुहा व्याहृतीर्जुहोति । पृथक्पृथक् गृहीत्वा अक्षमात्रं जुहोति । समृध्चै-मन्त्रतन्त्रपरिपूर्तये । पैतृके औपासन यज्ञपदं विहाय तत्स्थाने वैश्वदेवयज्ञपदं संयोज्य विधेभ्यो देवेभ्यः स्वाहेत्यन्तं हुत्वा ततः पकं चरुं व्याहृतीभिर्जुहुयात् । सर्वहोमानामित्यादि -दैविकपैतृ कदिहोमानाम्, आदिः प्रथमः आधारो भवेत् । इति सप्तमः पटलः । (इति पञ्चदशः खण्डः) । अथ अष्टमः पटलः (अथ षोडशः खण्डः) अथ सामान्यतः इत्यादि । आघारं हुवा संकल्पितं कर्म कुर्यात् । तदुपयोगि सामान्यमन्त्रा उच्यन्ते । सर्वकर्मस्वेते.उपयुज्यन्तें । क्रियायाः संस्काराणाम् होममन्त्राः होमादौ । मन्त्राः धातादयः षोडश । (इति षोडशः खण्डः) । (अथ सप्तदशः खण्डः) 'इमं मे । इत्यादि । पञ्चमन्त्राः वरुणो देवता येषां तत् वारुणमिति संज्ञा। 'इममित्यादि पञ्चमन्त्राणाम् । उपांशुयाजे। रहस्यो चारणमुपांशु । प्राजापत्ये । चित्तादीनां जया इति संज्ञा। 'अभिभूतानामित्य ष्टादशमन्त्राणामभ्याताना इति संज्ञा । (इति सप्तदशः खण्डः) । १७९ (अथ अष्टादशः खण्डः) ऋताषाडित्यादि द्वादशमन्त्रा राष्ट्रभृत्संज्ञाः । तत्र 'भुक्नस्य पते । यस्यते – सनो भुवनस्य पते; इति द्वौ मन्त्रौ मध्यपतिनौ वर्जयित्वा प्रत्येक ताभ्योऽन्ता द्वादशमन्त्राः राष्ट्रभृतः । प्राजाफ्यादिराष्ट्रभूदन्तो मूलहोमः । बभूवेत्यादि । 'स हि हव्यो बभूव' इति ‘पितरः पितामहा । इति पैतृकः-क्षत्राय महि शर्म यच्छतु' इति त्रयाणां मन्त्राणामन्ते व्याहृतिः होतव्या । इत्यष्टमः पटल: (इत्यष्टादशः खण्डः) । अथ नवमः पटलः । (अथ एकोनविंशः खैण्डः) अथान्ते होममन्त्राः इति। अन्ते तत्तत्संस्कारहोमपरिसमाप्तौ अंगभूताः प्रायश्चित्तरूपाश्च होममन्त्रा उच्यन्ते । यदस्यादीनां स्विष्टाकार इति संज्ञा एकादशमन्त्राणाम् । मिन्दाहुतिसंज्ञे द्वे । इष्टभ्यः स्वाहेति दशानां ऋद्धिरिति संज्ञा । कृताहुतिरेतु देवान्स्वाहेि वाक्यमन्ते यस्य तत्कृतान्तम् । आश्रावितादित्रयं यत्प्रमत्त इत्यादि षट्कंश्च