पृष्ठम्:श्रीवैखानसगृह्यसूत्रम्-भागः १.pdf/३६४

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

१० थी श्रीनिवासमलित-तात्पर्यचिन्तामणिसहितम् [प्रथम: प्रश्न विच्छिनसंज्ञम् । विच्छिते न्यूनतिरेकमेभिरिति विच्छिन्नमभावेितादीन नवानां मन्त्राणां संज्ञा भवति । घृताक्तास्सप्तसमिधस्तत्तन्मन्त्रैरौ हरति । सर्वेषामलाभे यथासंभवम् । भलब्धानां प्रतिनिधित्वेन पलाशीं जुहुयात् । अश्वत्थीं वा। पूर्यते याग आभ्यमिति पूर्णाहुती। उपजुद्दा जुह्वां प्रत्येकं (आज्यं) गृहीत्वा अमिर्मुक्तमित्यादीन् हुत्वा जुह्वां प्रत्येकं चरुमक्दाय अभिजीर्णमित्यादि भिर्हत्वा स्रावयन् वेद्यां ििषञ्चन् जुहोति । खाल्यैव आज्यशेषं जुहुयात् । (इति एकोनविंशः खण्डः) (अथ विंशः खण्डः) तत्पात्रेणेत्यादि । आज्यस्खाल्या करकाज्जल मादाय तदपः प्रत्येकं श्रुवेण गृहीत्वा, अन्तरितं सुवान्तर्गतम्, उप-समीपे अने पश्चिमस्वां निनीय तथा वेद्याम्, आकाशे भूम्यां निनीय दक्षिणस्यां वेद्यां तर्पयति नियति । प्रणीतायां दक्षिणस्यामित्यादि । अनन्तरमप उपस्पृश्य । ततः प्रवाहणे-परिषेचनम् । पवित्रमक्षतं गृहीत्वा । पवित्रमिति जात्येकवचनम् । ग्रहणं तूष्णीम् । क्रमेण पर्यायतो मन्त्रैः होमः । दक्षिणमणिधिपवित्रभुत्र प्रणिधिपवित्रं दक्षिणमणिध्यक्षतमुत्तरप्रणिध्यक्षतमिति । अयमेकः पक्षः । प्रथमं दक्षिणमणिधिपवित्रं ततः तत्रत्याक्षतं ततः उत्तरप्रणिधिपवितं ततस्तस्रत्याक्षत मिति अपरः पक्षः । उभयपक्षे होम्यग्रहणं तूष्णीमेव। उत्तरः पक्ष एव साधुः । तदद्भिः प्रेक्ष्य । यजमानस्यैव प्रेक्षणम् श्रौतक्त् । न प्रणिध्योः-प्रयोजना भावात् । मणिी क्सिर्जयति । विसर्जनं पात्रपेटिकायां निधानम् । इति नवमः पटलः (इति विंशः खण्डः) अथ दशमः पटलः (अव एकविंशः खण्डः) 'पुनेर्देवेभ्य इत्यादि। अग्नेर्दर्शनेन मतपनेन । विसर्जनं पातपेटिकायां निधानम् । सुवादीनां धारणं ििहत यावजीवमाहिताग्नेः । 'सुवादीनि धेनुर्वहणामित्याददीत' इति परिधानीये कर्मणि निर्दिष्टम् । वर्षिष्ठसमिषाविति। तूष्णीं गृहीत्वा मन्त्रेण होमः । पश्चिमतः परिमिफ्नयेत्यादि । मन्त्रेण परिधीनामपनयनं, प्रत्येकं तूष्णीं होमः नात्य ऋत्य यपरिधेरधस्तादंगारेष्वपेहयेत् । पश्चिमत इत्यादि । सर्वान् अन्वर्थ। कूर्चयेत् प्रन्थीन् क्सृिज्य प्रेक्ष्य नात्यं, आप्यायन्तामिित जुहोति।