पृष्ठम्:श्रीवैखानसगृह्यसूत्रम्-भागः १.pdf/३६६

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

अथ द्वितीयप्रश्ने-प्रथमः खण्ड अथ-शारीरेषु संस्कारेषु ऋतुसङ्गमनर्ज नान्दीमुखं कुर्यात्॥१ ननु सर्वसंस्काराणां मूलभूते ऋतुसङ्गमने नििषद्धय इतरसंस्कारेषु किमर्थ नान्दीमुखं प्रतिपाद्यते इति चेत्-उच्यते । तथा च व्यासः – 'सूतकान्नमुदक्यान्ने सीमन्तात्रं तथैव च । यागान्नमशुभान्नश्च भुक्ता चान्द्रायणं चरेत् । चूडाहोमे निवृते च प्राङ्नामकरणात्तथा। भुक्ता चरेत्सान्तपनं जातकर्मणि चैव हि । अतोऽन्येषु च भुक्तान्न संस्कारेषु द्विजोत्तमाः । नियोगादुपवासेन शुद्धधते निन्द्यभोजनात् । ब्राझौदने च संमे च सीमन्तोन्नयने तथा । जातश्राद्धे नवश्राद्धे भुक्ता चान्द्रायणं चरेत् ॥ इति एवं दोषयुक्तान्नेन अभ्युदयश्राद्धस्य कर्तुमयुक्तत्वात् अत्र निषेध उक्त:। यद्यन्नदोषादेव निषेध उच्यते तर्हि समपठितसीमन्तोन्नयनस्यापि दोषदुष्टत्वात् तत्रापि निषेधः स्यात् इति चेत्-नैवम् । 'नास्या अन्नमद्यात् ब्रह्महत्यायैद्येषा वर्ण प्रतिमुच्यास्ते'इत्यादिषु श्रुतिषु अत्यन्तनिषेधश्रवणात् निषेध उपपद्यते इति। किंन सीमन्तादिषु कालज्ञानसंभवात् आर्तवे कालज्ञानाभावाश्च । तथा – सूतकाद्विगुणं शावं शावाद्विगुणमार्तवम्' इति दोषाधिक्यस्मरणात् ऋतुसङ्गमनवजेंमित्युक्तम् । श्रीविष्णुपुराणे :- ‘कन्यापुत्रविवाहेषु प्रवेशे चैव वेश्मनः । नामकर्मणि बालानां चूडाकर्मादिके तथा । सीमन्तोन्नयने चैव पुत्रादिमुस्वदर्शने । नान्दीमुखं पितृगणं पूजयेद्रप्रयतो गृही ॥ इति