पृष्ठम्:श्रीवैखानसगृह्यसूत्रम्-भागः १.pdf/३६७

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

प्रयमः खण्डः] श्रीवैखानसगृह्यसूत्रम् १४३ गर्गः- 'पुत्रोत्पतिप्रतिष्ठासु मैौञ्जीत्यागे च बन्धनं । चूडायाञ्च विवाहे च वृद्धिश्राद्धं विधीयते' । इति निषेककले सोमे च सीमन्तोन्नयने तथा । ज्ञेयं पुंसवने श्राद्धं क्रियांगं वृद्धिकृत्कृतम्': दृदि । सीमन्तादिषु नान्दीमुखकरणं दृश्यते ॥

  • श्वः कर्ताऽ' स्मीति गर्भाधानादिक्रियां यदहः करोति

तदहर्नान्दी भवति ॥ २ ॥ ': कर्तास्मीति क्रियां यदहः करोति-पूर्वेद्युः । राद्यस्कालिकेऽपि कर्तव्यताज्ञापनार्थ यदहः करोति तदहर्नान्दी भवतीत्युक्तम् । तस्या मुखं सर्वदेवपितृदेवत्यं नान्दीमुखमभ्युदयश्राद्धं दैविक वत् करोति । ३ ।। नान्द्या मुखं सर्वदेवत्यं पितृदेवत्यञ्च यत्कर्म तन्मुखं तत्प्रधानमित्यर्थः । नान्दीमुखमभ्युदयश्राद्धमिति पर्यायः । दैवेन तीथेनोपवीतिना कार्यमित्यर्थः । यद्वा दैविकवदिति सदैवतमिति । मनुः- 'दैवं हि पितृकार्यस्य पूर्वमाप्यायनं स्मृतम् । तेषामारक्षभूतन्तु पूर्व दैवन्तु योजयेत् ॥ रक्षांसि विमलुम्पिन्त श्राद्धमारक्षवर्जितम् ॥ इति पूर्वेद्युरेव पूर्वाझे युग्मान् ब्राह्मणान् सुप्रक्षालितपाणिपादान् श्रोत्रियानन्नेन परिविष्य अथेलामभ्युक्ष्य ‘अथावनीद'मिति मण्डलाः न्युपलिप्य 'अस्त्वासन'मित्यासनानि सदर्भयवानि निधाय तेष्वासीनान् पुष्पादैः यथोपपादमलङ्करोति ॥ ४ ॥ एवकारेण पूर्वेद्युरेव कर्तव्यता ज्ञाप्यते । तथा मनुः– ‘दर्भाः पवित्रं पूर्वाहे हविष्याणि च सर्वशः । पवित्रं यच पूर्वोक्तं िवज्ञेया हत्यसम्पदः ॥ इति।