पृष्ठम्:श्रीवैखानसगृह्यसूत्रम्-भागः १.pdf/३६९

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

श्रीवैखानसगृह्यसूत्रम् १४५ युग्मान् ब्राह्मणानित्युक्तत्वात् 'नान्दीमुखे वसुस्सत्य' इति द्वौ विधेदेवार्थ, मात्रर्थ द्वौ पित्र द्वौ मातामहाथै द्वाविति युग्मत्वेन वरणम् । नैमित्तिके मृताहे च वृद्धिश्राद्धे तथैव च । भात्रादीनां पृथक् श्राद्धमन्यत्र पितृभिस्सह' ॥ इति वचनाच मात्रादीनां पृथक् कर्तव्यम् । अष्टकावत् समन्त्रकमित्यभिप्रायः। नान्दीमुखाः पितरस्सानुगाः प्रियन्तामित्यध्यप्रदाने द्विर्दद्यात् । आवाहनादि प्रकारस्त्वष्टकायां द्रष्टव्यः । 'पित्रे स्वदितमित्येव वाच्यं गोठे च सूनृतम् । सम्पन्नमित्यभ्युदये दैवे रोचत इत्यपि' ॥ इति शुक्रुबलिः चेतसर्षपाः दधि तण्डुलमित्यामनन्ति चतुरुशुक्रुम्॥५ शुकुबलिः चेतान्न चेतसर्षपाः दधि तण्डुलञ्च चतुश्शुकृमेित्यामनन्ति । एतदादाय अग्नेर्दक्षिणतः 'अग्रये सोमाय प्रजेशाय विश्वेभ्यो देवेभ्यः ऋषिभ्यः पितृभ्यो भूतेभ्यः सर्वाभ्यो देवताभ्यो नमः'इत्यन्तेन तन्नाम्ना पुष्पादिभिरभ्यच्यै बलिं ददाति ॥ ६ ॥ अग्नेर्दक्षिणत इत्युक्तत्वात् आधारानन्तरमित्यवगम्यते । केवलभूमौ कर्तु मयुक्तत्वात् ब्रह्मादिभिः स्थण्डिलं कृत्वा प्रत्येकं कूर्च निधाय अमिमावाहयामी त्यादिभिः अभ्यादीनावाह्य 'होमे षड्रिग्रहाः प्रोक्ताः । पुष्पादयस्ते षट्प्रोक्ता होमध्यानार्चनाय वै' । इति पुष्पगन्धधूपदीपाध्यचमनादिभिरभ्यच्यै बलिं 'अमये चतुश्शुलबलिं निवेदयामी'त्यादिभिर्ददाति । मंगलद्रव्यत्वात् चतुश्शुकमित्युक्तम् । इति श्रीमत्कौशिकवंश्येन गोविन्दाचार्यसूनुना वेदान्ताचार्यवर्येण श्रीनिवासास्ययज्वना विरचिते श्रीवैखानससूत्रव्याख्याने तात्पर्यचिन्तामणौ द्वितीयप्रश्ने प्रथमः खण्डः 24 समाप्तः ।