पृष्ठम्:श्रीवैखानसगृह्यसूत्रम्-भागः १.pdf/३७०

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

अथ द्वितीयः खण्डः वा ० चरुमपूपादि च निवेद्य उदकुंभं 'धारा । स्वित्यद्भिरापूर्य 'नमन्सुलोमी'ति पाप्मनोऽपहत्यै सपछवं निदधाति ।। १ ।। चरुमपूपादि च निवेद्य । आदिशब्देन फलादीनि, चकारात् तांबूलादिवम् । 'पायसं कुसरं मांसमपूपानथशाप्कुलान् । अपचन्नात्मनोर्थाय वृथामांसानभक्ष्यन्' इति क्चनात्, 'मधुधाग्नोश्चोदनायां तोयपिष्टौ प्रतिनिधी गृहीयात्' इत्यक्तत्वाच मांसार्थमपूपग्रहणम् । उदकुंभं तन्तुना वेष्टितं ‘धारा स्वित्यद्भिरापूर्य पाप्मो हत्यै गर्भधानादिषु बीजक्षेत्रगतपापनिवृत्त्यर्थम् । 'गह मैर्जातकर्मचूडामौजनिबन्धनैः । वैजिकं गर्मिक चैनो द्विजानामपमृज्यते' ॥ इति वचनात् । किंच – नास्य कर्म नियच्छन्ति विञ्चिदामौङ्गिबन्धनात् । वृत्या शूद्रसमो ह्येष यावद्वेदेन जायते ॥ इति नामकरणादारभ्यपनयनपर्यन्तं शूद्रसमत्वोक्तिः तद्दोषनिवृत्यर्थमपि । 'उदिते सवितर्यस्य क्रियायुक्तस्य धीमतः । चतुर्वेदधरस्यापि देहे षड्वृपलास्मृताः । वामः क्रोधश्च लोभश्ध मोहश्च मद् एव च । महामोहश्च इत्येते देहे फ्ड्वृषलाः स्मृताः । इति उपनयनादारभ्य अरिषड्गैनिवृत्त्यर्थं प्रायश्चित्तादिषु तत्तत्पपनिवृत्त्यर्थमिति च । मपछवमित्यादि । व्रीह्यादिस्थण्डिलंपरि अहतबस्रयुक्तमश्वत्थादिप्लक्युतं कूर्च सुवर्णनारिकेलफलसमन्वितश्च निदधातंत्यर्थः । श्रुतिः । 'वरुणस्य वा अभिषिच्यमानस्याप इन्द्रियं वीर्य निरघ्नन् । तसुवर्ण हिरण्थमवत् । यदुक्ममन्तर्दधाति इन्द्रियस्य वीर्यस्यानिर्धाताय इति। (आभरणमिति। स्वर्णाभरणम्।) 'पवित्रं वै हित्प्यम्। पुनात्येवैनम्' । इति