पृष्ठम्:श्रीवैखानसगृह्यसूत्रम्-भागः १.pdf/३७३

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

द्वितीयः खण्डः] श्रीवैखानसगृह्यसूत्रम् साद्यस्कालिके तु तदानीमेव स्रानम् । यथा श्रौते । 'तदानीमुद कुंभाद्रिः या सुगन्धा रसाः' इति यजमानमभिषिच्य पुण्याहं वाचये'दिति । नान्दीमुखमिति विज्ञायते ॥ ९ ॥ होमब्राह्मणभोजनाद्युदकुंभजलखानान्तं नान्दीमुख्यम् । इति श्रीमत्कौशिकवंश्येन गोविन्दाचार्यसूनुना वेदान्ताचार्यवर्येण श्रीनिवासाख्ययज्वना विरचिते श्रीवैखानससूत्रव्याख्याने तात्पर्यचिन्तामणौ द्वितीयप्रश्ये द्वितीयः खण्डः १०९