पृष्ठम्:श्रीवैखानसगृह्यसूत्रम्-भागः १.pdf/३७४

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

अथ तृतीयः खण्डः अथ गर्भाधानादिवर्षे पञ्चमे ब्रह्मर्चसकामम् आयुष्याममष्टमे नवमे वा श्रीकामं वसन्ते ब्राह्मणं पुपनयीत ॥ १ ॥ अनन्तस्पनयनविधिं विवक्षुर्वर्णानुरूप्थेणोपनयनकालमाह अथ गर्भा धानादीत्यादिना । उच्यते च 'पञ्चमे ज्ञानवृद्धिश्च षष्ठ ब्रह्मत्वमाप्नुयात् । औपनायनिके कार्ये शुकेन परिभाषितम्' । इति ब्रह्म चैमकामस्येत्यादि । अत्र बालय कामनाऽसम्भवात् विभक्ति व्यत्ययः । ब्रह्मवर्चसकामः (पित्रादिः) इत्यर्थ । नवमे वेति-वा शब्दात् षोडशवर्षपर्यन्तग्रहणम् । मनुः- 'ब्रह्मवर्चसकामस्य कार्य विप्रस्य पञ्चमे । राज्ञो बलार्थिनः षष्ठ वैश्यस्यार्थार्थिनोऽष्टमे' । इति पितैवोपनयेदेनं पञ्चमादौ यथाविधि सप्तमे चाष्टमे चैव क्षत्रियस्य विशः क्रमात्' । इति । पैठीनसि:- 'गर्भसंवत्सरादब्दे अष्टमे ब्राह्मणं शिशुम् । पितैवोपनयेदेनं पञ्चमादिष्वपीप्यते । सप्तमे चाष्टमे चैव क्षत्रियस्य विशः क्रमात्' । इति बौथायनः-'अथातो गर्माष्टमे ब्राह्मणमुपनयीत'इयारभ्य 'अथापि कान्यानि भवन्ति सप्तमे ब्रह्मवर्चसकाममष्टमे आयुष्कामं नवमे तेजस्कामं दशमेऽन्नाद्य काममेकादशे इन्द्रियकाम द्वादशे पशुकामं पयोदशे मेधाकामं चतुर्दशे पुष्टिकामं पञ्चदशे भ्रातृव्यवन्तं षोडशे सर्वाम'मेति वसन्ते - वसन्त । ब्राह्मणम् मात्राह्मणमित्यर्थः । एकादशे ग्रीष्मे राजन्यत् ॥ २ ॥