पृष्ठम्:श्रीवैखानसगृह्यसूत्रम्-भागः १.pdf/३७५

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

तृतीयः खण्डः] श्रीवैखानसगृह्यसूत्रम् १९१ द्वादशे शरदि वैश्यम् ॥ ३ ॥ अत्र मनुः – 'गर्भाष्टमेऽब्दे कुर्वीत ब्राह्मणस्योपनायनम् । गर्भादेकादशे राज्ञो गर्भातु द्वादशे विश:' । इति उक्तकालनियमे उपपतिमाह बृहस्पतिः

  • अशुभाब्दे ग्रहास्सवें शुभगेचरगा अपि ।

शान्त्यभावाच्छमं नैव यान्यब्देऽकालमृत्युवत् । तस्मात् ग्रहेभ्यः कालस्यात् बली संवत्सरः स्मृतः' । इति अत्र - अब्दसंख्यानियमस्यायमभिप्रायः । ब्रह्म-क्षत्र-विशां गायत्री त्रिधुपजगीछन्दोभिस्सह उत्पत्तिः श्रूयते । यथा--'गायत्री छन्दो रथन्तराणाँ रथन्तरं साम ब्राह्मणो मनुष्याणामाजः पशूनां तस्माते मुख दास्सृज्यन्त' इति त्रिष्टप् छन्दो बृहत्साम राजन्यो मनुष्याणामविः पशूनामिति-जगती छन्दो वैरूपं साम वैश्यो मनुष्याणां गावः पशूनामिति। गायत्र्यादिरेिरामुपनयनश्च स्मर्यते । वासिष्ठे –‘गायत्र्या ब्राह्मणमुपनयत त्रिपुःा राजन्यं जगत्या वैश्य मिति । ततश्च उपनयनाब्दा अपि स्वस्वछन्दोक्षरसमसंख्या: भवितुमर्हन्तीति ज्ञेयम् । छन्दसामक्षरसंख्या च श्रयते । 'अष्टाक्षरा गायत्री एकादशाक्षरा त्रिधुप द्वादशाक्षरा जगती'ति । हारीतः– ‘छन्दस्सु पादाक्षरसमुदायवत् अब्दसमूहे उपनयन'मिति । गायत्र्या दीनामक्षरवत्वादिकं यजुषि श्रूयते । 'कदूश्च वै सुपर्णी चात्मरूपयोरस्पर्धां सा कदूः सुपर्णीमजयत् साऽब्रवीतृतीयस्वामितो दिवि सोमस्तमाहर तेनात्मानं निष्क्रीणीष्व त्यारभ्य 'जगयुदपाचतुर्दशाक्षरा सती साप्राप्य न्यवर्तत तस्यै द्वे अक्षरे अमीयेता 'मित्यादिना जगतीछन्दसः अक्षरद्वयहीनतां पश्वादिला. चां प्रतिपाद्य त्रिष्टगुदपतत् त्रयोदशाक्षरा सती सा प्राप्य न्यवर्तत तयै द्वे अक्षरे अमीयेता'मित्यादिना विधुपछन्दसोऽक्षरद्वयहीनतां दक्षिणादिलाभश्च प्रतिपाद्य गायत्र्युदपतत् चतुरक्षरा सत्यजया ज्योतिषा तमस्या अजाऽभ्यरुन्धत् तदजाया अजत्वं सा सोमश्चाहरत् चत्वारि चाक्षराणि साऽष्टाक्षरा समपद्यत’ इति गायत्र्या