पृष्ठम्:श्रीवैखानसगृह्यसूत्रम्-भागः १.pdf/३७६

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

श्री श्रीनिवासमखिकृत-तात्पर्यचिन्तामणिसहितम् [द्वितीय प्रश्ने अष्टाक्षरत्वादिकं पतिपादितम् । किञ्च छन्दोगब्राह्मणे।'प्रजापतिरकामयत बहुस्स प्रजायेय ' इत्यारभ्य 'यज्ञ सृजेयेति । स मुखत एव त्रिवृतमसृजत । तं गायत्री छन्दोऽन्वसृज्यत । अभिर्देवता ब्राह्मणो वसन्त ऋतुः तस्मात् त्रिवृत्तोमानां गायत्री छन्दसाममिदेवानां ब्राश्रणो मुखेन वीर्यं करोति । मुखतो हि सृष्टः मुखेन वीर्यम् । य एवं वेद स उरस्त एव बाहुभ्यां पञ्चदशमसृजत । तं विधुप छन्दोऽन्वसृज्यत । इन्द्रो देवता राजन्यो मनुष्यो ग्रीष्म ऋतु: तस्माद्राजन्यस्य पञ्चदशः स्तोमः विधुप् छन्दः इन्द्रो देवता ग्रीष्मऋतुः तस्मादु बाहुवीर्यो बाहुभ्यां हि सृष्टः करोति बाहुभ्यां वीर्य य एवं वेद समृद्धयत एव प्रजननात् सप्तदशमस्य जगतः जगती छन्दोऽन्वसृज्यत । विश्वे देवता वैश्यो मनुष्यो वर्षा ऋतुः तस्माद्वश्यो आमानो न क्षीयते प्रजननाद्धिसृष्टः तस्मादु बहुपशुवैश्वदेवो हेि " इति । अत एव च वसन्तादयो ऋतवश्ध उक्ताः । आषोडशाड्राह्मणमाद्वाविंशात् क्षत्रियमाचतुविशाद्वैश्यमिति वा॥४ अकाले कृतमकृत'मित्यादिशंकाव्यावृत्त्यर्थ आषोडशादित्याद्युच्यते । वाशब्दो विकल्पार्थः । मुख्यकाले गौणकाले वेति । अतीते सावित्रीपतिता भवन्ति ।। ५ ।। गैौणकालस्याप्यतिक्रमे दोषमाह सावित्रीपतिता भवन्ति इति । तत्र आषोडशाद्राह्मणस्य सावित्री नातिवर्तते । आद्वाविंशात् क्षत्रबन्धोराचुतुर्विशतेर्विशः । अत उध्वै त्रयोऽप्येते यथाकालमसंस्कृताः । सावित्रीपतिता ब्रात्या भवन्त्यायविगर्हिताः ।। नैतैरपूतैर्विधिक्दापद्यपि कदाच् र । ब्राझान् यौनांग्ध संबन्धानाच प्राह्मणस्सह' । इति 'एकशय्याऽऽसनं पञ्चक्तिः भाण्डं पकान्नमित्रणम् । याजनाध्यापने यानं तवैव सहभोजनम् ॥ नक्षा सङ्करः प्रोक्तः न कर्तव्योऽमैः सह' ॥ इति च