पृष्ठम्:श्रीवैखानसगृह्यसूत्रम्-भागः १.pdf/३७७

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

तृतीयः खण्ड:] 25 १९३ तेषामुद्दालकप्रायश्चित्तम् ॥ ६ ॥ उद्दालकप्रायश्चित्तमिति । उदालकेन महिर्षणा दृष्ट व्रतम् । यद्वा उद्दालकेनाऽचरितम् । द्वौ मासौ यापकेन, मासै क्षीरेण, आमिक्षयाऽर्धमासम्, अष्टरातं घृतेन, अयाचितेन षड्रात्रं, त्रिरात्रमुदकेन, उपवासमहोरात्रं वर्तत इत्येतदुद्दालकम् । अनेन वा अश्वमेधावभृथस्रानेन वा व्रात्यतोमेन वेष्टा पुनः गर्भाधानदिसंस्कारान् करोति । शुद्धा उपनेयाः सावित्री पतिता भवन्तीति विज्ञायते ॥ ७ ।। उद्दालवप्रायश्चित्ताचरणप्रकारमाह द्वैौ मासावित्यादिना ! अत्रोक्तो मासश्धान्द्रः । यथा * श्रौतस्मार्तानि कर्माणि मासोक्तानि ऋतानि च । तिलदानादिदानानि चान्द्रमासे वदन्ति हि ' । इति स्मृतिः यावकं यवान्नम् । 'योऽश्रीयाद्याक्कं नित्यं गोमूत्रैस्सशकृद्द्रवैः । सदधि क्षीरसर्पिभ्र्या मुच्यते सोऽहसः क्षणात् । बोधायनः–“अथ कर्मभिरात्मकृतैः गुरुमिवात्मानं मन्येत आत्माथे प्रसृतं यावकं श्रपयेत्। उदितेषु नक्षत्रेषु न ततोऽौ जुहुयात् । न चात्र बलिकर्म । अशृतं श्रप्यमाणं शृतञ्चाभिमन्त्रये त । यवोऽसि धान्यराजो वा वारुणो मधुसंयुतः । निर्णोदस्सर्वपापानां पवित्रमृषिभिस्मृतम् । घृतं यवा मधु यवा आपो यवा अमृतं यवाः । सर्वे पुनथ मे पापं यन्मया दुष्कृतं कृतम् । वाचा कृतं कायकृतं मनसा दुर्विचिन्तितम् । अलक्ष्मीं कालरात्रिञ्च सर्वे पुनथ मे धवः ॥