पृष्ठम्:श्रीवैखानसगृह्यसूत्रम्-भागः १.pdf/३७८

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

१९४ श्रौ श्रीनिवातमखित-तात्पर्यचिन्तामणिसहित असूकरावधुतं यत् काकोच्छिष्टतश्च यत् । मातापित्रोरशुश्रूषां सर्वे पुनथ मे यवः ॥ महापातकसंयुतं दारुणं राजकिल्विषम् । बालवृत्तमधर्मश्च सर्व पुनय मे यवाः । सुवर्णस्तैन्यमन्नत्यमयाज्यस्य च याजनम् । ब्राह्मणानां परीवादः सर्वे पुनथ मे यवाः ॥ गणान्ने गणिकान्नञ्च शूद्रान्ने श्राद्धसूतकम् । चोरस्यान्ने नवश्राद्धं सर्वं पुनथ मे यवाः । [द्वितीय प्रक्ने इति श्रप्यमाणे रक्षां कुर्यात् । 'नमो रुद्राय भूताधिपतये-चौशान्ता-कृणुष्व पाजः इत्यनुवाकै: 'ये देवाः पुरस्सदो-अभिनेत्रा-रक्षेोहण' इति पञ्चभिः पर्यायैः

  • मानस्तोके–‘ब्रह्मा देवाना' मिति द्वाभ्यां शृतश्च लध्वश्नीयात् । प्रयतः

पात्रे निषिच्य ‘ये देवा मनोजातास्तेभ्यस्वाहेति आत्मनि जुहुयात् त्रिरात्रम्। मेधार्थी षड्रात्रं पीत्वा पाफ्कृत् शुद्धो भवति । सप्तरात्रं पीत्वा अणहननं गुरुतल्पगमनं सुवर्णस्तैन्यंसुरापानमिति च पुनाति । एकादशवारं पीत्वा पूर्वपुरुषकृतमपि पापं निर्गुदति । अपिवा गोनिष्क्रान्तानां यवानामेकविंशतिरात्रं पीत्वा गणान् पश्यति गणाधिपतिं पश्यति विद्यां पश्यति विद्याधिपतिं पश्यतीत्याह भगवान् बोधायनः' । इति । मासं क्षीरेण चतुर्थकाले इति भावः । 'चतुर्थ कालआनभक्तस्यादिति श्रुनिः आमिक्षयाऽर्धमासं आमिक्षा क्षीरस्याम्लादिना संयोगकृतविकारान्तारपति: । घृतनाटरात्रं । छन्दोगब्राह्मणे । घृतव्रतो भवति । देवव्रतं वै घृतव्रतम् । देववतनैव व्रतानप्येति । इति देवत्रतत्वात् घृतक्तमुक्तम् । अयाचितेन षड्रात्रं भिक्षाशनसमुद्योगात् प्रार्केणापि निमन्त्रितः । अयाचितं हि तद्वैक्ष भोक्तव्यं मनुरब्रवीत्' । इति अयाचिते कालनियमोऽपि नास्तीति स्मर्यते । यथा