पृष्ठम्:श्रीवैखानसगृह्यसूत्रम्-भागः १.pdf/३७९

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

तृतीयः खण्डः] श्रीवैखानसगृह्यसूत्रम् भोज्यद्रव्यं परेभ्यश्च यत्प्रयत्नेन दीयते । अयाचितन्तु तत्प्रोक्तं न कालनियमः स्मृतः' । इति त्रिगत्रमुदकेन । 'अपोऽश्नात्यन्तरत एव मेध्यो भवतीति' श्रुतिः। उपवासमहोरात्रं । अनशनमुपवासः । यद्वा 'विष्णोः कर्माणि यो विप्रः कीर्तयेच्छूणुयादपि । वास सपाप परमात्मनः । यसगुणैरेव सोपवास इति प्रोक्तो ब्रह्मणा परमेष्ठिना' । इत्युक्तः एतदुद्दालकम् । वाशब्दो विकल्पार्थः । अश्वमेधस्य युगान्तरविषय त्वात् व्रात्यस्तोमेन वेत्युक्तम् । ननु-ब्रात्यतोमो नाम ऋतुविशेषः अनुपनीतस्य कथमुपपद्यते इति चेत् सत्यम् । ब्रात्यस्तोमो द्विविधः । व्रतभ्रष्टानामाहिताम्यादीनां क्रतुरूपो व्रात्यस्तोम एकः । सावित्रीपतितानान्तु त्रात्यस्तोमः सुत्रे प्रतिपादितोऽन्यः । तद्यथा-'तस्य पिता चान्द्रायणं पुत्रः प्राजापत्यं चरित्वा तस्य जातकामिाधायाऽधारं हुत्वा मिन्दाहुतिपूर्णाहुती ब्राह्म वैष्णवचाष्टशतमाक्त्यै हुत्वा पूर्ववदुपनयनं कुर्या 'दिति। क्रतुसाम्यमतीति ज्ञापनार्थमिष्ट्वेत्युक्तम् । पुनः पश्चात् । गर्भाधानादि संस्कारान् जुहोति इति भावः । इति श्रीमत्कौशिकश्येन गोविन्दाचार्यसूनुना वेदान्ताचार्यवर्येण श्रीनिवासाख्ययज्वना विरचिते श्रीवैखानससूत्रव्याख्याने तात्र्यचिन्तामणौ द्वितीयप्रश्ने तृतीयः खण्डः समाप्तः । १९५