पृष्ठम्:श्रीवैखानसगृह्यसूत्रम्-भागः १.pdf/३८०

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

अथ चतुर्थः खण्ड ४४ः ब्राह्मणस्य पालाशो बैल्वो वा केशान्तो नित्रंणोऽनुन्मृष्टोऽनु द्वेजनो यूपवदवक्रो दण्डः कृष्णमृगस्याजिनं मौञ्जी मेखला ।। १ ।। ब्रह्मवर्चसाथै पालाशबैल्वौ । वाशब्दो विकल्पार्थः । सम्मिौदुम्बरी भवति । यावानेव यजमानस्तावतीमेवास्मिन्नूर्ज दधा' तीति श्रुतेः केशान्त इत्युक्तम् । निर्वणः -व्रणरहितः । अनुन्मृष्टः शस्त्रादिक्षति रहितः । अनुद्वेजनः कम्परहितः अभयङ्करः । अवक्रः वक्ररहितः । 'गोपुच्छव दानुपृष्येणाग्रतोऽणीयांस'मिति श्रौतोक्तयूपलक्षणयुक् । त्रणरहितः । 'बहुपर्ण बहुशाख 'मित्यादि तु न भवति । कृष्णमृगस्याजिनं कृष्णाजिनम् । 'ब्रह्मण एतद्रपं यत्कृष्णाजिन' मित्यादि श्रतेि: क्षत्रियस्य नैयग्रोधोललाटान्तो दण्डो रौरवमजिनं मौवीं मेखला। क्षत्रियस्य । 'क्षतत्राणं करोति यः। चातुर्वण्यैबहिष्टोपि स एव क्षत्रिय स्मृतः । इति महाभारतवचनात् अन्यस्य न भवति । ‘रूढिर्योगमपहन्ती' ति न्यायात् । अतो बाहुजस्यैवोपनयनं युक्तम् । ललाटान्तः-पूर्वोक्तोपपतिः । मौवीं धनुज्य-मेखला वैश्यस्यौदुम्बरो नासिकान्तो दण्डो वास्त () मजिनं शाणी मेखला ॥ ३ ॥ ओदुम्बरः दण्डः । 'ऊजों व एोऽन्नाद्यो वनस्पतिरजायत । 'ऊर्क पशवः' इति श्रुतिः । यास्तमजिनं पुष्टौ वा एतदूपं यदा । इति श्रुतिः। शाणी शणतन्तुर्मेखला ब्राह्मणो बैल्वपालशैौ क्षत्रियो वटखादिरौ बादरोदुम्बरौ वैश्यः दण्डानर्हन्ति धर्मतः । केशान्तिको ब्राह्मणस्य दण्डः कायों विधानतः । ललाटसमितो राज्ञस्यात् नासान्तिको विशः ॥