पृष्ठम्:श्रीवैखानसगृह्यसूत्रम्-भागः १.pdf/३८२

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

अथ पञ्चमः खण्डः प्रोष्ठपदहस्तावश्विन्यनूराधे उत्तरपुनर्वसू मृगशिरो वा यावन्ति पुरुनामानि नक्षत्राणि ॥ १ ॥ एवं नैमिित्तकसमिदाधानपर्यन्त()मुक्ता उपनयनयोग्यानि नक्षत्राण्युप पपादयति प्रेोठपदत्यादिना । प्रोष्ठपदः उत्तरप्रोष्ठपात् । उत्तः-उत्तरफल्गुनी। वा शब्दो विकल्पार्थः । यद्वा समुचयार्थः । तेन लयमादयो लक्ष्यन्ते । पुन्नामानीत्यादि । बृहस्पतिः– 'सर्प चतुष्कं रौद्रक्ष यायं त्वाष्ट्रत्रिकं जलम् । वैश्चन्द्रौ वासवं पौष्णं स्त्रीलिंगास्समुदाहृताः । सौम्यवारुणमूलानि नपुंसकदिनानि तु । शेषाः पुंलिंगतां याताः तारास्सर्वाः शचीपते ॥ इति हस्तादित्यश्रवणमभिजितिष्यमैत्राश्विनीकं पुन्नामे(?)तन्नक्कमथ च पोष्ठपादह .... । मूलं सैन्यं शतभिषगिति त्रीणि नपुंसकानि शेषास्तारास्त्विह निगदिता योषितो ज्यौतिषझैः ॥ इति नक्षत्राणां पुंस्त्वादिसंज्ञा उक्ता । ग्राह्यनक्षत्रोक्तौ त्याज्यनक्षत्रस्वरूप मपि ज्ञेयम् । किञ्च यौतिथे - 'उपनीतौ त्यजेन्मूलत्रिर्क श्रेणादिमध्यमम् ॥ इति कर्णवेधे पुंसवने नामविद्योपनीतिषु । अष्टमखा ग्रहा नेष्टा नान्दीश्राद्धे व्यायगाः । इति अन्यत्र – ‘कर्णवेधे पुंसवने विद्यायामुपनायने । नानि राजाभिषेके च देवप्राममतिष्ठयोः । अष्टमखा ग्रहा नेष्टा गृहारम्भप्रवेशयोः ॥ इति