पृष्ठम्:श्रीवैखानसगृह्यसूत्रम्-भागः १.pdf/३८३

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

अम्बसः खण्डः] १९९ शुद्धे लमे निषेकः स्याद्वितीये धनसंश्रहः । तृतीये मित्रसंबन्धः चतुर्थे शत्रुदर्शनम् । प्रयाणं पञ्चमे चैव षष्ठ छेदनभेषजे । सप्तमे तु विवाहः स्यान्नामादिस्थापनाष्टमे । नवमे जननं शस्तं दशमे चान्नभोजनम् । शुद्धे चैकादशे श्राद्धं द्वादशे वास्तुनामिनी ।। इति लमशुद्धियुक्त शुभग्रहदृष्टियुते चोपनयनं युक्तम् । तथाहि । बृहस्पतिः– . 'मृगकुंभगते भानौ मध्यमं मीनमेषयोः । उत्तमं गोयमस्थेऽर्के ह्यधमन्तूपनायनम् ॥ इति किञ्च । 'वर्जनीयाः प्रयत्नेन विफ्मत्यरनैधनाः ।' इति वचनस्य प्रति प्रसव उच्यते । विवाहे प्रत्यरः श्रेष्ठो मौञ्जी विपदि शोभना ॥ इति वसिष्ठः- 'सप्तपञ्चमचन्द्राष्टसप्तविंशतिभेषु च । वैनाशिके त्रिजन्मक्षं नेष्ट भेषुपनायनम् ।।' इति अत्र च प्रतिप्रसवः । पट्टबन्धनौलान्नप्राशने चोपनायने । शुभदं जन्मनक्षत्रमशुभन्वन्यकर्मणि ।।' इति 'सप्तविंशतिनक्षत्रमेकराशिसमन्वितम् । सर्वेषु शुभदं प्रोक्तं विवाहोपनयादिषु ॥ भूषणे तुरगारोहं लवनं धान्यसंग्रहः ॥' इति संहे– ‘देवमिता 'भैषज्यं नवानं बालभोजनम्। सीमन्तं विष्णुपूजा च प्रवेशः कृषिकर्म च । बीजावापं व्रतं खानमन्त्य कारयेद्बुधः ॥' इति