पृष्ठम्:श्रीवैखानसगृह्यसूत्रम्-भागः १.pdf/३८९

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

पञ्चमः खण्डः] श्रीवैखानसगृह्यसूत्रम् दशसप्ताष्टसंख्यास्तु त्रिजन्मन्यशुभावहाः । शेषाशुभावहाः .क्तास्सदा शोभनकर्मसु ॥ इति किञ्च– 'या चैत्रवैशाखसिता तृतीया माधेऽर्कसप्तम्यपि फाल्गुनस्य । कृष्णद्वितीयं पनये प्रशस्ताः प्रोक्ताः भरद्वाजमुनीन्द्रमुख्यै । 'माघे शुझे सप्तमी द्वादशी च फाल्गुन्यां वै कृष्णपक्षे तृतीया । वैशाखे वै शुकृपक्षे तृतीया नानध्याया मौत्रिबन्धे प्रशस्ताः । तथा:- इत्यादीनि वचनानि व्यवस्थासापेक्षानि । ग्रन्थविस्तरभियात्र न प्रपञ्च्यते । अरिष्ट सामान्यपरिहारप्रकाराश्च उच्यन्ते । यथा – २०५ 'शुभः केन्द्रत्रिकोणस्थः त्रिषडायगतोऽपरः । नद्योगो बलवानेकोऽप्यदृश्यांशादिदोषहा ॥ आत्तोपग्रहचण्डीशचन्द्रजामित्रसंभवान् । तान् केन्द्रगो गुरुर्हन्ति सुपर्णः पन्नगानिव । चन्द्रदोषा लमदोषाः पापग्रहकृताश्च ये । ते सर्वे नाशमायान्ति केन्द्रसंस्थे शुभग्रहे । एकोऽपि मित्रराशिस्थः शुभो वा यदि लमगः । हन्ति दोषान् हरिदिने चोपवासन्नतं यथा । गुरुस्सर्वगुणोपेतो लमकेन्द्रत्रिकोणगः । दोषाणां लक्षकं हन्यात् लमस्थस्सर्वदोषहा ॥ 'ज्ञो द्यनमुत्सृज्य सहस्रदोषान् निहन्ति केन्द्रोपगतो बलीयान् । दोषायुतं दानवराजमन्त्री गीर्वाणमन्त्री खलु लक्षदोषान् । गुरुः स्थितो वा लमस्थः प्रबलस्सर्वदोषहा । राहुदोषं बुधो हन्यात् उभयोस्तु शनैश्वरः । त्रयं भूमिसुतो हन्ति चतुरस्तु भृगोस्सुतः । पञ्चदोषान् देवमन्त्री षण्णां दोषांस्तु चन्द्रमाः ॥