पृष्ठम्:श्रीवैखानसगृह्यसूत्रम्-भागः १.pdf/३९२

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

२०४ थी श्रीनिवातमखिकृत-तात्पर्यचिन्तामभिसहितम् [द्वितीय प्रश्न दण्डः-पलाशदण्डः । शरावाश्मसमिद्दर्भादीनि -दर्भ 'विवाहे पुरुषाः दर्भाः, शीदर्भाः पुंसवेषु संभार्याः । आदिशब्देन फलपुष्पचन्दनतांबूलाक्षतादि । दभेषु संभृत्येत्यादि । वीर्यवत्क्संपादनाय । अथाऽऽज्येनाघारं हुत्वा आचान्तं मंगलयुक्तं कुमारं अग्नेर्नेत्यां आसयित्वा मस्तके दर्भ प्रागुक्तगौ विन्यस्य मरो-ाणं दर्भ ‘इन्द्र शस्त्र' मिति चतुर्भिः प्रदक्षिणं चतुर्देिशं छित्वा 'येनाषपत् यत् क्षुरे' णेति सर्वो वपति । नाधो जत्रोः ।। ३ ।। अथ-अनन्तरम् । अपारम्- कृत्वमाघारान्तम् । समानतन्त्र तु आघारमात्रम् । आचमनममन्त्रकम्। मंगलयुक्त स्राभरणादियुक्तम् । मन्त्रै छेदः आयुष्याभिवृद्धयर्थम् । ‘मास्यायुः प्रमोषी' ति मन्त्रलिंगात् । तथा मेध्यत्वाय च । श्रुतिः । 'केशश्मश्रु वपते । नखानि निकृन्तते । मृता वा एषा त्वगमेध्या । यत्केशश्मश्रु । मृतामेव त्वचममेध्यामपहृत्य यज्ञयो भूत्वा मेधमुपैति ? इति । 'नाधेो जत्रो ? रिति सर्वांगनिषेधः । गोशकृद्युते शगवे केशान् गृह्णीयात् ।। ४ ।। आनुशासनिके गोशकृत लक्ष्मीनिवासत्वेनोक्तत्वात् तद्युक्तशराव ग्रहणम् । यत्र मौण्डथं शिखाभ्रवर्जमानखं वपति ॥ ५ ॥ यत्र कर्मणि प्रायश्चित्तादौ वा मैौण्डयं विधीयते तत्र आनखम् -- नलपर्यन्तम् । कृतकेशान् 'उदुबरदर्भयोर्मले गोडे वा गृहये'दित्युत्तरत्र वक्ष्यमाणत्वात् तथा निदध्यात् 'इदमहममु 'प्येत्यादिमन्त्रः । स्रात्वा आषान्तं पुण्याहं वाचयित्वः भुक्तवन्तमासयति दक्षिणे दीक्षाभोजनक्त् कुमारभोजनमुच्यते । द. पणे आचार्यस्य दक्षिणभागे । अथ परिस्तीर्य 'वायुर्दा अग्ने–'आयुर्दा देव' इति प्रधानं पञ्चवारुणं व्याहृतिपर्यन्तं शुहोति ।। ७ ।।