पृष्ठम्:श्रीवैखानसगृह्यसूत्रम्-भागः १.pdf/३९३

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

पञ्चमः खण्ड:] २०९ प्रधानहोमत्वात् कर्मान्तरव्यवहितत्वाद्वा परिस्तरणम् । प्रधानम् उपनयनस्य प्रधानभूतम् । 'आति' ष्ठति वायव्यामश्म पादाङ्गुष्ठन दक्षिणेन स्पयति ॥८ ब्रह्मचर्यस्यैर्यार्थमिदमिति मन्त्रलिंगादवगम्यते । 'या अकृन्त'न्निनि वस्त्र 'इयं दुरुक्ता'दिति मेखलां ‘परीद' मित्युत्तरीयं 'यज्ञोपवीत 'मित्युपवीतं ‘मित्रस्य चक्षु'रिति कृष्णाजिनं तस्मै ददानि ॥ ९ ॥ वस्रमहतं वासः पूर्वोक्तम् । ‘अहतं वासः परिधते पाप्मनोऽपहत्या इति श्रुतिः ! नामेरधस्तादमेध्यमिति तत्परिहाराय मेखला उच्यते । ‘ऊध्र्व वै पुरुषस्य नाभ्यै मेध्यमवाचीनममेध्यं यन्मध्यतः सन्नह्मति मेध्यशैवामेध्यञ्च व्यावर्तयति' इति । परीदमित्युत्तरीयं दीक्षितस्येवोल्बस्थानीयमुक्तम् । यजुषि 'उल्नं वासः प्रोणुते तस्माद्भर्भः प्रावृता जायन्ते' इति । ऋग्वाह्मणे-'वाससा प्रेोर्गुवन्ति । उल्पं वा एतद्यद्दीक्षितस्य । यद्वास । उल्बेनैवैनं तत्प्रेणैवन्ति इति । उपवीतमिनि-‘उपवीतं देवानामुपव्ययते । देवलक्ष्ममेव तत्कुरुते' इति श्रुतिः । कृष्णाजिनमिति । ऋग्ब्राह्मणे-'कृष्णाजिनमुत्तरं भवति। उत्तरं वा उल्बाजरायु । जरायुणेवैनं तत्प्रोर्णवति' इति । ननु–‘तस्मै ददाति इति आचार्यकर्तृकत्वेनोक्तत्वात् मन्त्रोचारणमाचार्यकृत्यं, न शिष्यस्येति चेत् – न

  • यज्ञोपवीतमन्त्रेण व्याहृत्या वाऽथ धारयेत् ।

इति देवलमरणात् 'यज्ञोपवीतं प्रतिमुञ्चन् वाचयति' इति बोधायनस्मरणाच आचार्यशिष्याभ्यामुभाभ्यामपि मन्त्रोचारणं कर्तव्यमिति सिद्धेः ॥ इति श्रीमत्कौशिकवंश्येन गोविन्दाचार्यसूनुना वेदान्ताचार्यक्र्येण श्रीनिवासाख्ययज्वना | विरचिते श्रीवैखानससूत्रव्याख्याने तात्पर्यचिन्तामणौ द्वितीयप्रश्ने पञ्चमः खण्डः समाप्तः । 27