पृष्ठम्:श्रीवैखानसगृह्यसूत्रम्-भागः १.pdf/३९४

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

अथ षष्ठः खण्डः ततो विधिवदाचमनं कारयित्वा सदस्याननुज्ञाप्य 'देवस्य इति बाहू आलभ्य उत्तरे प्राङ्मुखमुपनयीत ॥ १ ॥ विधिवदाचमनं-समन्त्रकम् । उपनयनयोग्यतासिद्धार्थ सदस्यानु ज्ञापनम् । सद्स्यविषये -- बोधायनः – 'नाचतुर्वेदकल्पी च अंगविद्धर्मपालकः । आश्रमस्थास्रयो विप्राः पर्षदेषा दशावरा । प्रतिवक्ता तु धर्मस्य नेतरे तु सहस्रशः' । इति याज्ञवल्क्यः - * चत्वारो वेदधर्मज्ञा पर्वतैविद्यमेव वा । सा बृते यं स धर्मस्यादेकोऽप्यध्यात्मवित्तमः' । इति अन्यत्र – 'अवतानामतत्राणां जातिमात्रोपजीविनाम् । महस्रशस्समेतानां परिषत्वं न विद्यते ? ॥ इति सदस्यैरनुज्ञातः आचार्यः शिष्यस्योत्तरे प्राङ्मुखस्सन् प्राङ्मुखं 'आयुष्ट विश्वत ' इति दक्षिणं पाणि गृहीत्वोद्धरति ॥ २ ॥ अनिष्ट हस्तमग्रभीत्' इति विसर्जयति ॥ ३ ॥ एतदुपनयनम् । असैौ 'अपोशा'नेत्याचारम् ।। ५ ।। शिक्षयतीति शेषः । उपनीय'गुरुः शिष्यं शिक्षयेच्छौचमादितः । आचारममिकार्यञ्च सन्ध्योपासनमेव च ।। इति मनुस्मरणादाचारशिक्षा उच्यते । असािित नामनिर्देशः संबुद्धया । विष्णुशर्मन् इत्यादि । ‘वाड 'मिति शिष्यः प्रतिक्दति ।