पृष्ठम्:श्रीवैखानसगृह्यसूत्रम्-भागः १.pdf/३९५

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

षष्ठः खण्ड;] 'मम हृदय' इति तस्य हृदयस्पर्शनं कृत्वा ‘भूवसुवः सुप्रजा' इति प्रशंसति ॥ ५ ॥ भूक्षु त्वा' इति ‘भुवो यजुषु त्वा' इति 'सुवस्साम त्वा' इति 'इण्णुतस्ते' इति 'अनलस्यते' इति ‘इदं वत्स्याव' इति षरुभिः कणें जपित्वा नाम शर्मान्तं कुर्यात् ॥ ६ ॥ 'भूक्षु 'त्वेति मन्त्रान्ते विष्णुशर्म' न्नति संबोधनम् । एवमेव त्रिषु। प्रधानमन्त्रवात् कणें जपः ।

  • अग्रिरायुष्मा' नित्यादिकैः पञ्चभिः दक्षिणहस्ते कनिष्ठाद्य

गुज्यग्राणि पर्यायेण विसृजेत् ॥ ७ ॥ अमन्त्रकत्वेन गृहीतदक्षिणहस्तस्य कनिष्ठागुष्ठपर्यन्तान्यंगुल्यप्राणि 'अमिरायुष्मा' नित्यादिभिर्मन्त्रैः पर्यायेणैकैकशो विसृजेत्। 'मुष्टीकरोति-“मुटिं कृत्वा गोंऽन्तः शेते' 'मुटिं कृत्वा कुमारो जायते । यज्ञ चैव तत्सर्वाश्च देवता मुष्टयोः कुरुते'इति ऋग्वेदे श्रूयमाणत्वात् । अत्रापि जननसमयत्वात्। मुडीकरणार्थमिदमुक्तम् । यजुषि–‘अमिरायुष्मानिति हस्तं गृढात्येते वै देवा आयुष्मन्तस्त एवामिन्नायुर्दधति सर्वमायुरे' तीति । 'आयुर्दा' इति दक्षिणे कर्णे, 'प्रतिष्ठ वाया ' िवित वामे च जपति ॥ ८ ॥ आयुष्याभिवृद्धयर्थ दक्षिणे, स्वस्य वामे च-मन्त्रलिंगात् । 'स्वस्ति दे। वेत्यमि प्रदक्षिणं कारयित्वा दक्षिणे निवेश्य 'राष्ट्रभृद'सीति कूर्च दन्वा ‘शस्रो देवी' रिति प्रोक्ष्य मूलोमं व्याहांतपर्यन्तं जुहोति ॥ ९ ॥ सूर्यमदक्षिणार्थमभिपदक्षिणम् । यद्वा 'अमिः सर्वा देवता ' इति जुतेः सर्वेषां वा । ब्रह्मवर्चसादिधारणार्थ कूचैवारणम् । यद्वा ‘अपां वा एष ओषधीन रसो यद्दर्भाः सरसमेव ब्रह्म कुरुते'इति श्रुतेः अध्येष्यमाणस्य