पृष्ठम्:श्रीवैखानसगृह्यसूत्रम्-भागः १.pdf/३९६

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

२१२ श्री श्रीनिवासणविकृत-तात्पर्यचिन्तामणिसहितम् [द्वितीय प्रश्न विद्यार्थम् । 'व्याहृतिपर्यन्तं जुहोतीति । व्याहृतिपर्यन्तमित्युक्तत्वात् मूल होमान्ते व्याहृतिर्नेति केचित् । अदिनिस्ते कक्ष्या'मिनि हुनशेषं भोजयित्वा 'योगे योगे तवस्तर 'मित्याचमनं ददानि ॥ १० ॥ मेधाजनर्नार्थ हुतशेषभोजनम् । छन्दोगब्राह्मणे। 'योगे योगे तक्तरं सौमेय'()मिति । शतमिन्नु शरद 'इत्यादित्यं नमस्कृत्य 'आगन्त्रा सभगन्महि' इति प्रदक्षिणं कारयिन्वा 'शवाय त्वा' इत्युक्तमांगमभिमृश्य 'अधीहि भेो'इति शिष्यमनुशास्ति । अथ 'सावित्रीं भो अनुबू' हीति तेन प्रार्थितो गुरुः ‘गणानां त्वा'इति गणमुख्यं 'ओोऽसी'ति मावित्रीं 'ओोमास ' इति गायत्रीं 'पावक्नस्मरस्वती 'मिति सरस्वतीं च प्रणम्य यथोक्तां सावित्रीं पच्छोऽर्धर्चशः व्यस्तां समस्तामध्यापयेत् ॥ ११ ॥ प्रदक्षिणं कारयित्वेति । प्रदक्षिणमग्नेः । विशिष्यानुक्तत्वादात्मानं वा । 'शकाय त्वे' त्यादि । शरीरगतदोषनिर्हरणार्थ देवताभ्यो दानम् । ब्रह्मो पदेशयोग्यतासिद्धयर्थ 'अष्ीहि भी 'इति वटुं प्रत्युक्ति: । गणानामित्यादि । गणमुख्यम्- आचार्यम्-यद्वा गणपतिम् । अध्ययनप्रकारमाह मनुः 'अध्येष्यमाणस्त्वाचान्तो यथाशास्त्रमुदङ्मुखः । ब्राञ्जलिकृतोऽध्याप्यो लघुवासा जितेन्द्रियः । ब्रह्मारंभेऽवसाने च पादौ ग्राडौ गुरोस्सदा । संहत्य हस्ताक्ध्येयं स हि ब्रह्माञ्जलिस्मृतः | व्यत्यस्तपाणिना कार्यमुपसंग्रहणं गुरोः । सव्येन सव्यः स्प्रष्टव्यो दक्षिणेन तु दक्षिणः । अध्येष्यमाणस्तु गुरुं नित्य कालमतन्द्रितः । अधीहि भो इति याद्धिरामेऽस्त्विति चारमेत् ।