पृष्ठम्:श्रीवैखानसगृह्यसूत्रम्-भागः १.pdf/३९८

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

अथ सप्तमः खण्डः धातादिपूर्व सवित्रे काण्डर्पये-सदसस्पति-आदेवो यातु अभीघृतं-सधानो-विजनान्-छयावा-विसुपर्णो – भगन्धियं' इति सावित्रतसू ' अग्ने – वायो - इन्द्र - आदित्य-व्रतानां इति सावित्रतबन्धं पञ्चभिः व्याहृत्यन्तं जुहोति ।। १ ।। शिप्येणान्वारब्धो गुरुः माणवकं सावित्रतबन्धेन कर्मणा संस्क रिष्यामीति संकल्प्य उक्त सावित्रतसूतं हुत्वा शिष्येण च 'अग्ने व्रतपते इत्यादिभिर्मन्त्रैः समिद्धोमं तैरेवोपस्थानञ्च कारयेत् । श्रौते । 'अग्ने वेतप्त इतेि पञ्चभिराहवनीये समिधोऽभ्यादधाति । समुद्र मनसा ध्यायेत् । अने व्रतपते व्रतं चरिष्यामीति पञ्चभिर्यथालिंगं देवता उपतिष्ठमानो व्रतमुपैति' इति । होम एव व्रतबन्धः । पुराणे च – 'गर्गाद्यदुकुलाचार्यात् गायत्रं व्रतमास्थितः ॥ इति अग्रये समिध' मिति द्वे 'अग्रये समिधा । वेिति चत्वारि अग्रये समिध' इनि सप्त पालाशांकुराणि धृताक्तानि जुहोति ।। २ ।। पालाशांकुगणीत्यादि । ननु-अंकुराणीन्युक्तत्वादंकुराण्येव होम्यानि न समिध इति चेत् सत्यम् । 'श्रुतिलिंगवाक्यप्रकरणस्थानसमाल्यानां परस्परं समवाये परदौर्बल्यमर्थविपकर्षा। िदति श्रुयपेक्षया लिंगस्य दौर्बल्यत् 'सिमधा समिध्यस' इति विशिप्योक्तत्वान् समित्प्रकरणत्वाच साग्रास्समिध एवोद्दिश्यन्ते । यद्यपि ‘प्रकृतावूहो िवद्यते' अथाप्यत्र विकृतिमन्त्रत्वादूहः । नैमितिकत्वाच । नम 'सूर्य एष ते पुत्र' इत्यादित्यं दर्शयति ॥ ३ ॥ अष्टाभिस्समिद्भिः होमकर्मणि शिष्यं योजयेत् ॥ ४ ॥ 'यथा' हेति दक्षिणादि प्रदक्षिगं वेदिं परिमृज्य पूर्ववत् परिस्तृणाति ॥ ५ ॥