पृष्ठम्:श्रीवैखानसगृह्यसूत्रम्-भागः १.pdf/४००

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

श्रीनिवासमखिाकृत-तात्पर्यचिन्तामणिसहितम् [[द्वितीय प्रश्ने रुपतिष्ठत इति यो वा अ िप्रत्यक्डुपतिष्ठते प्रत्येनमोषति यः पराष्विङ् मजया पशुभिरेतेि कवा तिर्यङलिवोपतिष्ठत नैनं प्रत्योषति न विष्वङ् मजया पशुभि रेति' इति । सर्वत्राप्येवमेवोपस्थानम् । नित्यं सायं प्रातरेवं जुहुयात् ।। ८ ।। यतो ब्रह्मदत्तमिदमिज्यमभिहोत्रमेतन्मूलास्तदमय इति ब्रह्म वादिनो वदन्ति ॥ ९ ॥ यत इत्यादि । यस्मात्कारणात् ब्रह्मणा दत्तमुच्यते । तथा बोधा यनः । 'ब्रह्म वै मृत्यवे प्रजाः प्रायच्छत् तस्मै ब्रह्मचारिणमेव न प्रायच्छत् सोऽब्रवीत् अस्तु मद्यमप्येतस्मिन् भाग इति यामेव रात्रिं समिधे नाहरता इति तस्माद्रह्मचारी यां रात्रिं समिधे नाहरति आयुष एव तामक्दाय वसति । तस्माद्रह्मचारी समिधमाहरेन्नदायुषोऽक्दाय वसानीति ' 'दीर्घसत्रं ह वा एष उपैति यो ब्रह्मचर्यमुपैति स यामुपयन् समिधमादधाति सा प्रायणीया अथ यां स्रास्यन् सोदयनीया अथ या अन्तरेण सञ्या एव स्युः ताः ब्राह्मणो वै ब्रह्मचर्य मुपयंश्चतुर्धा भूतानि प्रविशति अमेिं फदा मृत्यु पदा आचार्य पदा आत्मन्येव चतुर्थः पादः परिक्षिप्यते स यदौ समिधमादधाति य एवास्यामौ पादस्तमेव तेन परिक्रीणा,ि तं संस्कृत्यात्मन् धते स एनमाविशति अथ यदात्मानं दरिद्री कृत्वा ह्रभूत्वा भिक्षते ब्रह्मचर्य चरति य एवास्य मृत्यौ पादस्तमेव तेन परिक्रीणाति तं संस्कृयात्मन् धत्ते स एनमाविशति अथ यदाचार्यक्चः करोति य एवास्याऽचार्ये पादस्तमेव तेन परिक्रीणाति तं संस्कृत्यात्मन् धत्ते स एनमादि शति अथ यत्स्वाध्यायमधीते य एवास्यात्मनि पादस्तमेव तेन परिक्रीणाति तं संस्कृयात्मन् धते स एनमाविशति न ह वै स्रात्वा भिक्षेत । इति । एवं समिदाधानादीनां कारणमुक्तम् । किश्च । सन्ध्योपासनात्पूर्वमेव मतिपदिते समिदाधाने शंका च परिहृता । इदमिज्यमिति । यावत्समावर्तनं तावत्पर्यन्तं नित्यत्वेन यजनीयममिहोत्रम् । होम इत्येव हविषा(?) विषादो दुःखमुच्यते । दुःखे तापत्रयं प्रोक्तं तापं हि नरकं स्मृतम् ॥ २१६