पृष्ठम्:श्रीवैखानसगृह्यसूत्रम्-भागः १.pdf/४०१

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

सप्तमः खण्डः) तस्मातु नरकलित्यं यग्निौ हुत सदा । त्रायते यजमानं तदमिहोत्रमिति स्मृतम्' । इति । 'उपनायनादिरमिस्तमौपासनमित्याचक्षते । पाणिग्रहणादित्येिक ' इति बोधायनवचनाच अमिहोत्रमित्युक्तम्। एतन्मृलास्तदग्रय इति। उपनयनानि मूल औपासनाद्या गार्हपत्याद्याश्च । औपासनाद्या यथा तथा गार्हपत्यादय इति वा । ब्रह्मवादिनो वदन्ति इति । बोधायनः -‘यमिन्नमावुपनयति तमिन् ब्रह्मचर्य तस्मिन् व्रतक्र्या तस्मिन् समावर्तन तमिन् पाणिग्रहणं तस्मिन् गृह्याणि कर्माणि क्रियन्ते तस्मिन् काम्यानि तमिन् प्रजासंस्कारा इत्येके'इति । यद्वा परिषेचनादिकमित्यवगम्यते तथाशब्दात्(१) ॥ इति श्रीमत्कैशिकवंश्येन गोविन्दाचार्यसूनुना वेदान्ताचार्यक्र्येण श्रीनिवासाख्ययज्वना विरिचते श्रीवैखानससूत्रव्याख्याने नात्पर्यचिन्तामणौ द्वितीयप्रश्ने सप्तमः खण्डः २१७ समाप्तः ।