पृष्ठम्:श्रीवैखानसगृह्यसूत्रम्-भागः १.pdf/४०२

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

अशिष्ट आयुरिति दण्डं ‘इन्द्रो मरु'ि रिति शगवं कठिनं वा भैक्षपालं दद्यात् ॥ १ ॥ दण्डं पालशमीप्सितमन्यद्वा । प्रतिगृडेप्सितं दण्डमुपस्थाय च भास्करम् । प्रदक्षिणं परीत्यामेिं चरेद्वैक्षं यथाविधि' । इति अन्यत्र–“शरावं कठिन लोहमयं दारुमयं वा वेणुपावेण कृतं वा अरितं पात्रं दकात्' इति । बोधायनः–“अथामा अरितं पात्रं प्रयच्छन्नाह ‘मातरमग्रे भिक्ष'स्वेति; म मतरमेवाग्रे भिक्षेत' इति ।

  • मातरं वा स्वसारं वा मातुर्वा भगिनीं निजाम् ।

भिक्षेत प्रथमां भिक्षां या चैनं न विमानयेत्' । इति भवति भिक्षां देहि' इति ब्राह्मणो ब्रूयात् ।। २ ।। क्षत्रियो 'भिक्षां भवति देहि 'इति ॥ ३ ॥ वैश्यो ‘भिक्षां देहि भवति' इति ।। ४ ।। नक्तद्वर्णानुरूप्येण भिक्षाचरणमाह 'भवति भिक्षा' िमत्यादि । मनुः - *भक्पूर्वं चरेडैक्षमुपनीतो द्विजोत्तम । भवन्मध्यन्तु राजन्यो वैश्यस्तु भवदुतरम्' । इति स एव – 'वेदयशैरहीनानां प्रशस्तानां स्वकर्मसु । ब्रह्मचार्याहरेशं गृहेभ्यः प्रयतोऽन्वहम् । गुरोः कुले न मिक्षेत न ज्ञातिकुलबन्धुषु । सर्वं वापि परेक्षं पूर्वोक्तानामसंभवे ॥ इति