पृष्ठम्:श्रीवैखानसगृह्यसूत्रम्-भागः १.pdf/४०३

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

अष्टमः खण्डः] अन्यत्र – ' आहारमात्रादधिकं न किञ्चिद्वैक्षमाचरेत्। हस्तवत्तान्तु यो भिक्षां लवणं व्यञ्जनानि च । भुक्ताऽप्यशुचितां याति दाता स्वर्ग न गच्छति ॥ इति मौनव्रतेन ब्राह्मणेभ्यो भैक्षं आममितरेभ्यो गृीयात् ॥ ५ ॥ मौनव्रतेनेत्यादि । ‘नियम्य प्रयतो वाक्मभिशस्तांश्च वर्जयेत्' इति स्मरणात् । क्षत्रियादिभ्यस्तंडुलम् ।

  • यस्य ते । इनि गुरुभैक्षमादाय 'सुश्रव' इति प्रोक्ष्य हविषा

अपूपलाजसमायुतेन मिन्दाहुती जुहोति ।। ६ ।। अन्तहोमो हूयते ।। ७ ।। 'निवेद्य गुरवेऽश्नीयात् आच्म्य प्राचुखरशुचि ब्रह्मचारी उतैकाहमुच्छिष्टन्तु न सन्त्यजेत् । अशक्तो निखनेद्भूमौ अप्सु वापः प्रवेशयेत् "() । इति पराशरः – गुर्वन्न मातुलादेश्च श्रशुराणां तथैव च । पितुः पुत्रस्य यवान्न न परान्नमिति स्मृतम्' । इति ननु –'अन्ने न प्रतिगृह्णीयात् प्राणैः कण्ठगतैरपि । इति वचनात् भिक्षाचरण स्यान्नप्रतिग्रहत्वात् तन्न कर्तव्यमिति चेत्-सत्यम् । भिक्षाहारो निराहारो भिक्षा नैव प्रतिग्रहः । इति क्चनात् भिक्षायाः प्रतिग्रहे न दोष । किञ्च - 'भैक्षेण वर्तयेन्नित्यं नैकान्नाशी भवेद्वती । भैक्षेण व्रतिनो वृत्तिरुपवाससमा स्मृता । । इति मनुस्मरणाच आपस्तम्बः – 'सवर्णानां स्वधमें वर्तमानानां भोक्तव्यम् शूद्रवर्जमित्येकें' इति । हविषा-भिक्षान्नेन, यद्वा--'अक्षरलवणचैव प्रकृया हरुिच्यत । इति भिक्षालव्यतिरिक्तान्नेन । मन्दाहुती हुत्वाऽन्तहोमः ॥