पृष्ठम्:श्रीवैखानसगृह्यसूत्रम्-भागः १.pdf/४०५

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

अध्टमः खण्ड:] २२१ श्रीभारते – 'यदि पुत्रश्च यच्छिष्यं गुरुस्सन्ताडयेद्वहु । अकारणात्कामकारः सोऽपि हिंस्रः प्रजायते ? ॥ इति दुष्टवाक्यः न शपनि ॥ ११ ॥ ‘शप्यमानस्य यत्पापं शपन्तमनुगच्छति ? इति स्मृतेः । अतिक्रमानुरूपं कृच्छूमादिशति ॥ १२ ॥ शाः - 'सन्ध्यादिनित्यलोपे तु दिनमेकमभोजनम् । दिनद्वये त्रिरात्रं स्यात् कृच्छूर्धन्तु दिनत्रये ।। दशाहे कृच्छूमेकं स्यादूर्व चान्द्रायण भवत् । चान्द्रायणं पराकञ्च मासादूर्धर्व विधीयते । नताऽप्यव प्रकल्प्य स्यात् व्यासस्य वचन यथा । गायत्र्यष्टशतवैव प्राणायामत्रयं तथा । प्रायश्चित्तमिदं प्रोक्तं नियमातिक्रमे सति । । इति स्मृत्यन्तरे – 'सन्ध्योपासनहीने तु नित्यशानं विलोप्य च । होमश्च नित्यकं शुद्धयेत् गायत्र्यष्टसहस्रत ' । इति सूत्रे च – ‘नित्यस्रानविहीने पूर्वक्त् स्रात्वा 'जुक्काय स्वाहे' त्यादि, सन्ध्यो पासनविहीने स्रात्वा दशप्राणायामान् कृत्वा अष्टशतं सावित्रीमधीत्य ? इत्यादि, तर्पणे हीने द्विगुणं तर्पयति, ब्रह्मयज्ञविहीने पुरुषसूक्तपूर्वमिति, प्रातस्समिद्धोमे हीने सायं द्विगुण'मित्यादि वक्ष्यते । एवमतिक्रमानुरूपं कृच्छं-प्राय श्चितम् – आदिशति अनुशास्ति । स्मत्यन्तरे- ‘त्रियहात्पूर्वमौ तु उपनीते गते सति । अन्यममेिं प्रतिष्ठाप्य व्याहृतीश्च हुनेत् घृतम् ॥ बढ़ा शिरसि बध्नीयात् क्रुिद्धान् प्रथितांसवान्(?) । आश्मदा (?) समिदाधाने न स्वाहाकार इष्यते । आयुपेत्यथ मन्त्रान्ते वटुमाध वयेद्गुरुः(४) । आतिष्ठमन्त्रमेवाग्रे भिक्षेतान्ने यथाविधि ।।