पृष्ठम्:श्रीवैखानसगृह्यसूत्रम्-भागः १.pdf/४०९

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

अण्टमः खण्ड:] श्रीवैखानसगृह्यसूत्रम् 29 उपनीतस्य पुत्रस्य जडत्वं मृत्युरेहि । एकोदराणां पुंसां स्याद्विवाहो नैकवत्सरे । 'पुत्रीपरिणयात्पूर्व यावद्दिनचतुष्टयम् । पुत्र्युन्तरस्य कुर्वीत नोद्वाहमिति सूरयः । पुत्रोपनयनात्पूर्वं षण्मासाभ्यन्तरे पिता । पुत्र्युद्वाहं न कुर्वीत विवाहं व्रतबन्धनम् । आद्यगर्भद्वयोः ज्येष्ठमासे नोद्वाहमाचरेत् । दंपत्योज्येष्ठ एकञ्चत् शुभं ज्येष्ठ न तु द्वये ॥ स्वसृयुग्मे भ्रातृयुग्मे स्वसृभ्रातृयुगे तथा । न जातु मंगलं कुर्यादिकस्मिन् मण्डपे यदि । कुर्यान्मण्डपं भिन्ने शुभं वेदिद्वयेऽपि वा । महानदीशैलरोधे कुर्यादेवैकवासरे !ः "कादय करतलग्रहण याद स्यात् एकाब्दिके तु विधवा भवनीनि कन्या नद्यन्तरे तु शुभदं मुनयो वदन्ति । मण्डनान्मुण्डन काय मुण्डनान्न तु मण्डनम्' | एकमातृजमातृभ्यः कन्या नैकाय नैकजाः । न च प्रतिविवाहाथ ज्येष्ठयोश्च परस्परम्'(?) । इति इत्यदि प्रसंगादुक्तम् । इति श्रीमत्कौशिकवंश्येन गोविन्दाचार्यसूनुना वेदान्ताचार्यवयेण श्रीनिवासास्ययज्वना विरचिते श्रीवैखानससूत्रव्याख्याने तात्पर्यचिन्तामणौ द्वितीयप्रश्ने अष्टमः खण्डः समाप्तः । २२५