पृष्ठम्:श्रीवैखानसगृह्यसूत्रम्-भागः १.pdf/४११

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

नवमः ] खण्ड हुत्या पूर्वाणि सूत्रदण्डादीन्यप्सु विसृज्य स्राताय नवान्युपवीतादीनि पूर्ववद्दत्वा तमद्भिरम्युक्ष्य दक्षिणे निवेश्य धातादिपूर्व 'प्रजापत्ये काण्डर्षये, सदसस्पर्ति-प्रजापते न त्वत्-रयीणां पतिं-प्रजापते त्वं निधिपाः-तवेमे लोकाः-प्रजापतिं प्रथमं-यो राय ' इत्यग्न्यादिषु पञ्चसु 'प्राजापत्य 'मित्युभयतोहित्वा वार्षिकं प्राजापत्यव्रतबन्धं हुत्वा शिष्यस्य शिष्येण व्रतं बन्धयति ॥ ४ ॥ पूर्वाणि सूत्रदण्डादीनीत्यत्र ‘श्रुत्यर्थपठनस्थानमुख्यावृत्तिक :क्रमः इति न्यायेन ज्ञाताय नवान्युपवीतानि पूर्वकहत्वा पूर्वाणि सूत्रदण्डादीन्यप्सु विसृज्येत्यम्क्यो वक्तव्यः । अन्यथा दोषस्मृतेः । भत्रिः-- 'ब्रह्मसूत्रं विदेवत्यं ब्रह्मविष्णुशिवात्मकम् । परित्यजन्ति ये विप्रा मोहाते कोपजीविनः । स्वर्गापवर्गमार्गभ्यां प्रच्युतास्ते न संशयः । त्यक्ता यज्ञोपवीतन्तु षट्कृच्छूणि समाचरेत् ॥ इति विष्णुः: 'उपवीतं शिखाबन्धमूर्धर्वपुण्डू विना कृतम् । अपवित्रकरं कर्म विप्रस्य विफलं भवेत् ॥ इति भृगुः । विना यज्ञोपवीतेन विना धौतेन वाससा । मुक्ता शिखां वा चान्तेन कृतस्यैव पुनः क्रिया ।। स एव - 'मन्त्रप्तं स्थितं काये यस्य यज्ञोपवीतकम् । नेोद्धरेच ततः प्राज्ञो य इच्छेच्छेय आत्मनः । सकृचक्षधारणात्स्य प्रायश्धित्तीयते द्विजः इत्यादिस्मृतिभ्यः यज्ञोपवीतं विना दण्डादीन्यप्सु विसृज्य ज्ञानात्परं पूर्ववन्मेखलादीनि दत्वा पूर्वधृतं यज्ञोपवीतं त्यजेत् । उत्तरीयमाचार्यो गृह्यति । अन्न बोधायनः । ' अथास्य बास आदते यस्य ते प्रथमवास्य । मिति । तं ज्ञातमद्भिरभ्युक्ष्य स्वदक्षिणे निवेश्य आषाढोपाकर्म कुर्यात् ।