पृष्ठम्:श्रीवैखानसगृह्यसूत्रम्-भागः १.pdf/४१२

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

श्री श्रीविासमशित-तात्पर्यचिन्तामणिसहितम् [[द्वितीय प्रफ्ले उपाकर्माकरणे प्राजापत्यदिव्रताधिकाराभावात् । अन्यथाऽप्येवमध्यापयितुकामो हुत्वाध्यापये 'दित्युत्तरत्र वक्ष्यमाणत्वाच । तदाचरणप्रकार उतरत्र वक्ष्यते। प्रकृतमनुसरामः । धातादिपूर्वमित्यादि । शिष्येण पञ्च समिधो हावयित्वा उपस्थानञ्च कारयित्वा व्रतं बन्धयति । ' पवित्रणि जुहोति प्रसूत्यै । 'वायव्यं चेत । मित्यादिकाण्डाध्ययनं कारयेत् । काण्डतिर्पणे 'सवितारं काण्डर्षेि प्रजापतिं सदसस्पति ! मिति । ब्रह्मयज्ञे च 'ऋतश्च सत्यञ्च-देवकृतस्य-यन्मे गर्भ तरत्समन्दी' ति जपेत् । वर्षे वर्षे तथैव त्रनविसर्ग हुत्वा तत्तद्व्रतं विसृज्य अन्यद्व्रत वर्षे वषे नथैव त्रनबन्धवद्विसर्गः । इदं ब्राह्मविषयम् । ‘गायत्रमजापत्य नैष्ठकानां 'आसावित्रसमातेरन्यत्र व्रतचारी' 'प्राजापत्ये त्रिसंवत्सरादृर्व न तिष्ठेत् ' 'नैष्ठिकस्य यावजीव 'मियुतरत्र वक्ष्यमाणत्वात् । 'शिष्यस्य शिष्येण त्रनं बन्धयनि' इत्यनेन शिप्यस्य 'अनं व्रतपन इत्यादििभः समिद्धोममुपस्थानञ्च दर्शितम् । सौम्यक्रतादीनामप्येवमेव कर्तव्यताज्ञापनार्थ ब्राह्मविषये तत्तद्वतं विसृज्यान्यड़तं बभ्रातीत्युच्यते । (वर्षान्ते संक्सरान्ते) ॥ इति श्रीमत्कौशिकवंश्येन गोविन्दाचार्यसूनुना वेदान्ताचार्यवर्येण श्रीनिवासस्यज्वना विरचिते श्रीवैखानससूत्रव्याख्याने नात्पर्यचिन्तामणौ द्वितीयप्रश्ने नवमः खण्डः