पृष्ठम्:श्रीवैखानसगृह्यसूत्रम्-भागः १.pdf/४१८

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

१४ श्रौ श्रीनिवासमलिकृत-तात्पर्यचिन्तामणिसहितम् शुक्रियब्राह्मणम् । ‘भद्रं कर्णेभिः-शन्नो मित्रः – अम्भस्य परे 'इत्याद्यरुण नारायणमारण्यकाण्डसंशितमतत्सवमर्धयति । एतदारण्यकाण्डमरण्येऽधीयीत । श्रुतिः । 'अरुणाः काण्डर्षयः अरण्येऽधीयीरन्’ ‘तपस्वी पुण्यो भवति तपस्वी पुण्यो भव ' तीति । अरुणान् काण्डर्षीन् इति काण्डक्तिर्पणञ्च कृत्वा अध्यवनान्ते विसर्जनम् कुर्यात् । याज्ञवल्क्यः - 'पौषमासस्य रोहिण्यामष्टकायामथापि वा। जलान्ते छन्दसां कुर्यादुत्सर्ग विधिवद्वहिः । अध्यायानामुपाकर्म कुर्यात्कालेऽपराहके । पूर्वाहे तु विसर्गस्यादिति वेदविदो विदुः । पुष्ये तु छन्दसां कुर्याद्धरुित्सर्जनं द्विजः । माघशुक्लस्य चामाप्ते पूडे प्रथमेऽहनि' ॥ इति गृहापरिशिष्टे- ‘पुण्ये माघे सिताष्टम्यां वेदोत्सर्जनमाचरेत् । नान्दीमुखश्च पुण्याहं हुत्वोपाकर्मवद्वहिः ॥ त्येजेद्वेदमक्सृिष्ट(?)त्वनध्यायो दाहं द्विजः । उपाकर्मणि वेदान्ते सद्यो वा विसृजेत्सह । ।॥ इति इदं प्राजाफ्यादित्रतबन्धविसर्जनानाञ्च समानम्। शुक्रियक्तविसर्जनञ्चान्न कुर्यात् । आषाढोपाकर्मणः प्राजापत्यव्रतबन्धस्य चान्योन्यसापेक्षत्वज्ञापनार्थे वन क्सिनस्यात्र कर्तव्यताज्ञापनार्थमङ्गत्वज्ञाफ्नार्थश्च शुक्रियक्रतान्ते प्रतिपादितम् । उपाकृति व्युत्क्रमेण प्रतिपादिता । इति श्रीमत्कैशिकवंश्येन गोविन्दाचार्यसूनुना वेदान्ताचार्यक्र्येण श्रीनिवासास्ययज्वना विरचिते श्रीवैखानससूत्रव्याख्याने तात्पयेचिन्तामणौ द्वितीयप्रक्षे एकादशः खण्डः [द्वितीय प्रश्नं समाप्तः ।