पृष्ठम्:श्रीवैखानसगृह्यसूत्रम्-भागः १.pdf/४१९

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

अथाषाढोपाकर्म कुर्यात् ॥ १ ॥ आचार्योचारणानुचरणरूपं वेदस्वीकरणं कर्तुमुपाकर्म विधीयते । ननु लिलितपुस्तकपाठादिनाप्यध्ययनं कर्तु शक्यते । विमर्थ गुरुमुखादिति चेत् सत्यम् । गुरुमुखाद्विना मकारान्तरेणाधीतानां प्रसन्नता नास्तीत्यवगम्यते । आरण्यपर्वणि इन्द्र-यवक्रीतसंवादे यवक्रीतः– ‘स्वाध्यायार्थे समारम्भो ममायं पाकशासनl । तपसा ज्ञातुमिच्छामि सज्ञानानि कौशिक। कालेन महता वेदाः शक्या गुरुमुखाद्विभो । प्राप्तुं तस्मादयं यज्ञः परमो मे समावित । इन्द्रः – “अमार्ग एष ब्रह्मर्षे येन त्वं ज्ञातुमिच्छसि । किं प्रयत्नेन ब्रह्मर्षे गच्छाधीहि गुरोर्मुखात् ॥ द्वजानामनधीता वै वेदास्सुरगणार्चिताः । प्रतिभान्ति न तप्येऽहमिदं परमकं तपः ? ॥ इति छान्दोग्ये । 'आचार्याद्वैव विद्या विदिता साधिष्ठ प्राफ्त्' इति । अत उपकर्म कार्यम् । आपूर्यमाणपक्षे िरक्तापर्वणी वर्जयित्वा बुधवारे तिथिं गृह्णाति॥२ आपूर्यमाणेति। श्रुतः । 'प्रजापतिरकामयत प्रजयेति । सत पोऽतप्यत । स त्रिवृतं सोमसृजत । तं पञ्चदशस्तोमो मध्यत उदतृणत् । तै पूर्वपक्षश्चापरपक्षश्चाभवताम् । पूर्वपक्षे देवा अन्वसृज्यन्त । अपरपक्षमन्यसुराः । ततो देवा अभवन् । परा असुराः । यं कामयेत क्सीयान् स्यादिति । तं पूर्वपक्षे याजयेत्।। क्सीयानेव भवति । यं कामयेत पापीयान् स्यादिति । तमपत्वे याजयेत् । पापीयानेव भवति । तस्मात्पूर्वपक्षेऽपरपक्षात् करुण्यतरः ॥ इति