पृष्ठम्:श्रीवैखानसगृह्यसूत्रम्-भागः १.pdf/४२०

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

२३६ ी मीनिवासमन्निकृत-तात्पर्धचिन्तामणिसहितम् [द्वितीय प्रश्ने रितेत्यादि । 'उपाकर्मणि शुक्रज्ञगुरुसूर्येन्दुवासराः । शुभास्युः शुभनक्षत्रं रिक्तापर्वाष्टमी विना' ॥ इति आथर्वणे । 'मासो वै प्रजापतिः । तस्य कृष्णपक्ष एव रूपम् । शुक्रः प्राणः । इति । बुधवारे इति । बुधवारे तिथिनक्षत्रादिकं लभ्यते चेत् सारस्क्तयोग इति ज्योतिषे उक्तम् । स्ववारेषु स्वहोरायां लग्नेऽत्युचगतो प्रहः । एतेऽष्टौ ज्ञानदा योगाः बुझे सारस्वतप्रदा ' । इति 'श्रावण्यां प्रोष्ठपद्या वा उपाकृत्य यथाविधि । युक्तश्छन्दांस्यधीयीत मासान् विप्रेऽर्धपञ्चमान्' । इति । बोधायनः । 'श्रवण्यां पौर्णमास्यामथवा आषाढ्यामपि ? इति । । संहितासारे – “आषाढे श्रावणे वापि प्रेोष्ठपद्यामथापि वा । यत्र निर्दोषकालस्यात्तत्र कुर्यादुपाकृतिम् । गुरुभार्गवयोमौढचे बाल्ये वा वार्धकेऽपि वा । तथाऽधिमाससंसर्पमलमासादिषु त्रिषु । प्रथमोपाकृतिर्न स्याद्यदि कुर्याद्विनश्यति । चण्डांशोर्मण्डल प्राप्तौ यदि शुक्रवृहस्पती ॥ श्रावण्यस्य तु नित्यत्वात्कर्तव्यं नित्यकर्मवत् ' । इति ‘आवणी पूर्णिमा यन्न ग्रहसङ्कान्तिदृषिता स्वाध्यायस्य प्रधानत्वात् नित्यत्वाच्छावणस्य तु । अञ्जसा श्रावणे श्रेझैः कर्तव्यं नित्यकर्मक्त्' । इति वा । उपाकर्म न कुर्वीत परतश्चेन्न दोषकृत् ।