पृष्ठम्:श्रीवैखानसगृह्यसूत्रम्-भागः १.pdf/४२२

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

धौ श्रीनिवासनलिकृत-तात्पर्यचिन्तामणिसहितम् [द्वितीय प्रश्न वारुणं भौमवारेण युक्तं मरणदं भवेत् । तस्मात् वर्जयेद्धीमान् मृत्युयोग उदीरितः । अक्ण्यां वारुणे शस्तं पौर्णमास्यां विशेषतः । वर्जयम्रोष्ठपद्यां तत् श्रावण्यान्तु न दोषकृत् । मन्दवारं भौमवारं प्रोष्ठपद्यामथापि वा । पैौर्णमास्यां संयुतचेदुपाकर्म न कारयेत् । श्रावण्यां मन्दर्भौमवारयोगे न दोषः । प्रोष्ठपद्यामिति विशेषोक्तिः । ज्योतिथे – 'तारवारतिथिजा गुणागुणा नात्र सूत्रविधिवैभवादतः । लममात्रमनुकूलमुज्ज्वल यत्तदेव विमृशेदुपाकृतौ' ॥ इति वेदोपाकरणे प्राप्ते कुलीरस्थे दिवाकरे। उपाकर्म न कर्तव्यं कर्तव्यं सिंहयुक्तके' ॥ इति कर्कटे निषिद्धयत इति चेत्-सत्यम् । नर्मदोत्तरतीरेषु कर्तव्यं सिंहयुक्तके । कुलीरेऽर्केऽपि कर्तव्यं नर्मदायास्तु दक्षिणे' । इति विषयप्रकाशिकायान्'कुलीरे रविसंयुक्त उपाकुर्यातु दक्षिणे । नर्मदोत्तरतीरे तु कर्तव्यं सिंहगे रौ । श्रवणे आवणे मासि पौर्णमासी यदा भवेत् । उपाकर्म तदा कुर्यात् ब्रह्मतेजोऽभिवृद्धये ।। पैौर्णमास्वाञ्च नित्यत्वादाफ्तम्बस्य शासनात् । मुक्ता भाद्रपदाषाढौ आक्यामेव कारयेत् ।। उपाकर्म तु कुर्वीत ग्रहणे च सूर्ययोः । प्राधान्येन विधानाच मनुनाऽम्याक्कर्मनि ।