पृष्ठम्:श्रीवैखानसगृह्यसूत्रम्-भागः १.pdf/४२५

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

श्रावणी पूर्णमासी तु सङ्गवात्परतो यदि । तदा चैौदयिकं ज्ञेयं नान्यदौदयिकं भवेत् । विधाने- 'सन्धिः सङ्गवतः प्राक् स्यात् पूर्वस्मिन् पर्वणि क्रिया । ोभूते समिदाधानमिति श्रावणिको विधि ' ।। परेऽहि सङ्गवादूध्दै पूर्णिमा श्रावणव्रते । सङ्गक्स्पर्शने वापि हीना पूर्णा शुभावहा' ॥ निगमे– ‘श्रावण्यां प्रोष्ठपद्यां वा प्रतिपत् षण्मुहूर्तकैः । वेिद्धा स्यात् छन्दसां कुर्यात्तत्रोपाकर्मसंज्ञितम् । दिनद्वयं समाश्रित्य पौर्णमासी यदा भवेत् । परेद्युः सङ्गमं प्राप्य स्थिता सा कर्मणोऽर्हति ? ॥ इति सन्धिस्सङ्गवतः पश्चात् अर्वाच्यध्यन्दिनाद्यदि । तस्मिन्नुपाकृतिं कुर्यात्सद्यस्समिध आहुती ' । इति यस्मिन् देशे य आचारो न्यायदृष्टस्तु कल्पितः । स तस्मिन्नेव कर्तव्यो देशाचारस्मृतो भृगोः । यस्मिन् देशे पुरे ग्रामे त्रैविद्ये नगरेऽपि वा । यो यत्र विहितो धर्मस्तं धर्म न विचालयेन् ' ॥ इति आपस्तम्बः– ‘येषां परम्पराप्राप्ताः पूर्वजैरप्यनुष्ठिताः । तत्र तान् नावमन्येत आचौरर्नेतरः पुनः' ॥ इति बेबलः- *येषु देशेषु ये देवा येषु देशेषु ये द्विजाः । येषु देशेषु यच्छौचं यत्र यत्रैव भृत्तिकाः ।। येषु देशेषु ये धर्माः धर्माचारस्तु यादृशः । तत्र तान् नावमन्येत देशाचारस्तु तादृशः ? ॥ इति तत्राऽऽघारं हुत्वा अग्रि परिस्तीर्य शिष्यं वापयित्वा स्रातं पुण्याई वाचयति ।। ३ ।। 31 २४१