पृष्ठम्:श्रीवैखानसगृह्यसूत्रम्-भागः १.pdf/४२७

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

द्वादशः खण्डः] प्रथमे सोऽभिदेवत्यो नान्ना संवत्सरः स्मृतः । यदा माघस्य शुक्रस्य त्रयोदश्यामुदग्रविः ॥ युते चन्द्रमसा रौद्रे वासवं प्रतिपद्यते । द्वितीयस्सोमदेवत्यः प्रोच्यते परिवत्सरः । कृष्णे माघस्य दशमी वासवारौ दिवाकरौ । तदा तृतीयं सम्प्राहुदिावत्सरकं जनः । सप्तमी माघशुकस्य वासवारौ दिवाकरौ । चतुर्थमिन्द्रदेवत्यं तमाहुनुवत्सरम् ॥ यदुतरायणं कृष्णे चतुथ्र्या तपसो भवेत् । इद्वत्सरस्स विज्ञेयः पञ्चमो मृत्युदेवतः ॥ नियतं पञ्चमस्यान्ते तदैव स्यात्सहोदयम्' । इति अत्र पूर्ववत्रनबन्धमित्यादि । पूर्ववत् प्राजापत्यक्त् । प्राजापत्यात् पूर्वमेव कर्तव्यताज्ञापनार्थे पूर्ववद्वत्रबन्धमित्युक्तम् । व्रतबन्धस्य प्राजापत्ये विद्यमानत्वात् अन्यत्रानुक्तत्वात् ‘अन्तराप्येव मध्यापयितुकामो हुत्वाऽध्यापये दिति सूत्रे उक्त्वाच पूर्वमेव कर्तव्यम् । अथ प्राङ्गमुखमुदङ्मुखं वा ब्रह्माञ्जलिं कारयित्वा दक्षिण मध्यासीनं वेदान् वेदौ वेदं वा सूत्रसहितसध्यापयति ॥ ७ ॥ प्राङ्मुखमुदमुखं वा । वाशब्देन प्रत्यङ्मुखं गृह्यते । ब्रह्माञ्जलिकृतोऽध्याप्यो लघुवासा जितेन्द्रियः । संहत्य हस्तावध्येयं स हि ब्राञ्जलिस्मृतः । । इति मनुः ‘वेदान् वेदावित्यादि । ‘एकं त्रींश्चतुरो वेदान् वेदादाक्नुवाककान्। आचन्तयोः प्रणक्युतमुपाकर्मणि संपठेत् ॥ इति