पृष्ठम्:श्रीवैखानसगृह्यसूत्रम्-भागः १.pdf/४२९

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

द्वादशः खण्डः] २४५ आशौचे यावदाशैौचं वेदानध्ययनं विदुः । शिप्यर्तृिगुरुबन्धुस्वशाखा श्रोत्रियसंस्थितै ॥ ग्रस्तास्तमयसापिण्ड्यश्राद्वैकोद्दिष्ट उपाकर्मणि वेदानामनध्यायस्त्र्यहं भवेत् । उत्सर्गे वाद्याध्ययने द्वितीये पक्षिणी दिनम्। आरण्यकस्य वेदस्य समाप्तौ तु यह भवेत्' । इति बोधायन:–‘मासप्रदोषे च नाधीयीरन् । सायंप्रातस्सन्ध्ययोश्ध नाधीयीरन् महानिशि वेति । बद्धगाग्र्यः– ‘रात्रौ यामद्वयादर्वाक् सप्तमी वा ऋयोदशी । प्रदोषस्स तु विज्ञेयस्सर्वविद्याविगर्हितः ॥ प्रागस्तात्पञ्च वृद्धौ तु क्षये तिस्रस्समे चतुः । पञ्च वा चतुरो विद्धा स्वाध्यायस्योदयादनु() ॥ चतुर्दश्यां यदा पर्व प्रागस्तात् दृश्यते रवेः। अनध्यायं प्रकुर्वीत त्रयोदश्यान्तु धर्मवित् । अभितश्चदनध्यायस्तत्राप्येके प्रकुर्वते । सदैकेऽपि त्वनध्यायं मन्यन्ते तद्विदो जनाः' ।। कालनिर्णये - - *काण्डप्रश्नानुवाकानां समाप्तौ काल इष्यते । दशाष्टमासस्तत्राणामनध्यायस्त्र्यहं भवेत् ॥ तत्राणि-संहिताशाखारण्यकानि । 'उत्सर्गे प्रथमेऽध्यायेऽनध्यायस्यहं भवेत् । धारणाध्ययनादौ तु पक्षिणी दिनमेव वा ॥ चतुर्दश्यां यदा पर्व प्रागस्तात् दृश्यते रवेः । अनध्यायं प्रकुर्वीत त्रयोदृश्यान्तु धर्मवित् ॥