पृष्ठम्:श्रीवैखानसगृह्यसूत्रम्-भागः १.pdf/४३३

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

सर्वेशभजने कालं वीक्षमाणस्तु वक्षितः । मैौनं वाचो निवृतिस्यान्नान्यभाषा न संस्कृम् ॥ नान्यदेवेरणं विष्णु सदा ध्यायेच कीर्तयेत् ॥ इति नैत्यके नास्त्यनध्यो ब्रह्मसत्रं हि तत् स्मृतम् । ब्रह्माहुतिहुतं पुण्यं स्वाध्यायश्च वषट्कृतम्' ! वेदोपाकरणे चैव स्वाध्याये चैव नैत्यके । नानुरोधोऽस्त्यनध्याये होममन्त्रेषु चैव हि । रत्नावल्याम् - 'देवतार्चनमन्त्राणां नानध्यायस्सदा स्मृतः । । सङ्कल्पितानां मन्त्राणां वैदिकानां महामते! । नानध्यायनिरोधोऽस्ति जपकर्मणि सदा । नित्ये जपे च काम्ये च क्रतै पारायणे तथा । नानध्यायोऽस्ति वेदानां प्रहणे ग्रहणं स्मृतम् । । स्मृत्पर्धारे 'चतुर्दश्यष्टमीपर्वप्रतिप्द्धर्जितेषु तु । वेदाङ्गन्यायमीमांसाधर्मशास्राणि चाभ्यसेत् ।। अनध्यायस्तु नाङ्गेषु नेतिहासपुराणयोः । न धर्मशास्त्रेष्वन्येषु पर्वण्येतानि वर्जयेत् . ॥ सौराणां राष्ट्रमन्त्राणां पैतृकाणाञ्च नैत्यके । जपहोमादिकार्येषु नानध्यायो न काम्यके । । नित्ये नैमितिके कम्ये ऋते यज्ञे क्रतौ तथा । प्रवृत्ते काम्यकार्ये च नानध्यायस्मृतस्सदा । नानध्याये जपेद्विद्वान् रुद्रांचैव विशेषतः ॥ पैौरुषं पावमानव गृहीतनियमादृते । । त्वदि