पृष्ठम्:श्रीवैखानसगृह्यसूत्रम्-भागः १.pdf/४३८

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

२५४ श्री श्रीनिवासमक्षिकृत-तात्पर्यचिन्तामणिसहितम् [द्वितीय प्रश्ने प्रागुक्ताश्रौ मस्तके स्थापयित्वा ‘स्वधिते मैनं हिंसी' रिति क्षुरं निधाय 'गोदान'मित्यादिभिः चतुर्भिर्मन्त्रैः यथाक्रमं चतसृषु दिक्षु सरोमाणं दर्भ छित्वा

  • येनावप'दिति सर्वतस्समन्त्रकं कृत्वा नापिताय क्षुरं प्रयच्छति । सोऽपि

शिखाश्रूवर्जमानस्खं वपनं कुर्यात् शगवे सानडुहशकृतेि (माता ब्रह्मचारी वा) केशादीन्यादाय इदमहममुष्य । इत्युदुम्बरदर्भयोर्मले गोष्ठ वा गृहयेत् ।। ४ ।। इदमहमित्यादि । “अहं गोत्रस्य शर्मणः पाप्मानमुपगृहामि उत्तरोऽसौ द्विषद्रयः । इति मन्त्र ऊहः । आयुष्याभिवृद्धयर्थ माता ब्रह्मचारी वेत्युक्तम् । अक्षादिसिद्धयर्थमुदुम्बरदर्भयोरित्युक्तम् । अत्र वपनप्रकारः श्रुतैौ । 'तेऽसुरा ऊध्र्व पृष्ठभ्यो नापश्यन् । ते केशानग्रेऽवन्त । अथ श्मश्रूणि । अथोपपक्षौ । ततस्तेऽवाञ्च आयन् । पराभवन् । यस्यैवं वपन्ति । अवाडेति । अथो परैव भवति । अथ देवा ऊध्र्व पृष्ठभ्योऽपश्यन् । त उपक्षावप्रेऽवपन्त । अथ श्मश्रूणि । अथ केशान् । ततस्तेऽभवन् । स्वर्ग लोकमायन् । यस्यैवं वपन्ति । भक्यात्मना । अथो सुवर्ग लोकमेति । अथैतन्मनुर्वप्रे मिथुनमपश्यत् । स इमश्रुण्यप्रेऽवपत । अथोपपौ । अथ केशान् । ततो वै स प्राजायत । प्रजया पशुभिः । यस्यैवं वपन्ति । प्रजया पशुभिर्मिथुनैर्जायते । इत्यादि । 'केशश्मश्रु वपते, नखानि निकृन्तते, मृता वा एषा त्वगमेध्या यत्केशश्मश्र . मृतामेव क्चममेध्यामपहृत्य यज्ञियो भूत्वा मेधमुपैती' ति च । ौते च-'श्मभूम्यग्रे क्पते अथोपपक्षाक्थ केशान् अभ्यन्तरं नरवानि निकृन्तते । प्रथमं दक्षिणहस्तस्याकुष्ठप्रभृति तथा सव्यस्य तथा पद्यानी 'ति । स्नृत्यन्तरे – 'नृपाइया ब्राह्मणसम्मतेश्ध बन्धस्य मोक्षे क्रतुदीक्षणे वा । विवाहकले मृतसूतके च सर्वेषु शस्तं क्षुरकर्म तेषु' ॥ इति । प्रामुखः श्मश्रुकर्माणि कारयेत् समाहित पञ्चाशद्वत्सराद्ध्वै क्पनं न विधीयते' । इति केचित्