पृष्ठम्:श्रीवैखानसगृह्यसूत्रम्-भागः १.pdf/४३९

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

त्रयोदशः खण्डः] गाग्र्यः– श्रीबैखानसगृह्यसूत्रम्

  • विना यज्ञ विना तीथै मातापित्रोतिं विना ।

यः कुर्यात्केशवपनं भवेत्स पिंतृघातुकः ' । अनिच्छावपनं प्रोक्तं पञ्चाशद्वर्पतः परम् । पञ्चाशद्वर्पतः पूर्वमाधानादिनिमित्तकम् । अधस्ताद्राक्षसं चैषां श्मश्रुकक्षादि मानुषम् । दैवतं देवतानाञ्च राक्षसं क्रूरकर्मणाम् । मानुषन्तु मनुष्याणां वपन स्यतिधा मतम् ' ॥ इति बोधायनः - 'श्मश्रुण्येवाग्रे वपते । अथोपपक्षावथ केशान्, यथोपपाद मिनराण्यङ्गानेि । एतद्येषा जरसा पूर्व आयुषि प्रयान्ति । पूर्वं आयुष्यन्नादा भवन्ति । य एव विद्वांसो लेोमानि वापयन्ते । इति । अरुनाद्याय व्यूहध्व' मिति दन्तधावनमौदुम्बरेण काटेन करोनि ।। ५ ।। शीतोष्णाभिगङ्गिः ' आपोहिष्ठा' इत्यादिभिः ऋग्भिः तिसृभिः रुन्नापयित्वा हिरण्यपवमानाभ्यां प्रोक्षयति ।। ६ ।। शीतोष्णाभिरित्यादि । दैवमानुषयोव्र्यावृत्त्यर्थं शीतोष्णाभिरित्युक्तम् । बोधायनः । 'उष्णासु शीना आनयति देवमानुषस्य व्यावृत्या ' इतीति । मसूरादिपिष्टरङ्गपरिवर्तनं कारयित्वा आमलकाचैः शिरः प्रक्षाल्य हरिद्रामालिप्य शीतासूष्णा अपो निषिच्य एताभिः शीतोष्णाभिरद्भिः स्राफ्यति, धौतं परीधाप्य शीतोष्णाभिरद्भिः प्रेक्षयति । अत्रैतन् प्रधानं कर्म । अङ्गोद्वर्तनत्वादे पूर्वं तथा प्रधानान् हुत्वा पुरोदयादादित्यस्य ब्राह्मत्रतं विसृज्य शुक्रियव्रतस्य ग्रहणविसर्गावित्येकं ।। ७ ।।