पृष्ठम्:श्रीवैखानसगृह्यसूत्रम्-भागः १.pdf/४४१

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

अथ चतुर्दशः खण्ड 'दिवि श्रय' स्वेत्यहने वामसी गन्धाभाणादीनि च प्रोक्ष्य 'नमो ग्रहाये' ति गन्धं गृहीत्वा प्राचीनमञ्जलिं कृत्वा 'अप्सरस्वि) ति गात्राण्यनुलेपयेत् ।। १ ।। नुलेपयेदिति । पश्चाद्भागेऽपि लेपयेत् इत्यर्थः । ५५ तेजो वत्स्याव ' इति वस्त्रै परिधाय 'सोमस्य तनूर ) सी त्युनरीयं गृह्णाति ।। २ ।। वस्रधारणानन्तरं गन्धलेपो न्याय्य:। पाठ्यक्रमादर्थक्रमस्य बलीयस्वात् । पूर्ववन्मेखलादीन्याददीत ।। ३ ।। इदं द्वितीययज्ञोपवीतद्योतकमित्यवगम्यते । यज्ञोपवीतं विना कर्म कर्तु मयुक्तत्वात्, अत्र यज्ञोपवीतविधानाच । बोधायनः-'अथ वातकस्यान्तर्वासः उत्तरीयं वैणवं दण्डं धारयेत् सोदकञ्च कमण्डलु द्वितीययज्ञोपवीतमुष्णीषमजिन ' मिति । रेबलः – 'ब्रह्मचारिण एकः स्यात्खातस्य द्वे बहूनि वा । तृतीयमुत्तरीयं स्याद्वस्रालाभे तदिष्यते ।। इति व्यासः – 'यज्ञोपवीतद्वितयं सोदकञ्च कमण्डलुम् । छसञ्चोष्णीषममलं पादुके चाप्युपानहौ ॥ कोपीनमहतं धार्य खण्डं वा वरूपार्श्वयुक् । यज्ञोपवीतमजिनं मौलीं दण्डश्च धारयेत्' । इति आभरणकुण्डलमणीन् ददरेण सुवर्णेन (वा) कृतानाच्छाद्य दण वाहीपात् ॥ ४ ॥ 33