पृष्ठम्:श्रीवैखानसगृह्यसूत्रम्-भागः १.pdf/४४२

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

२५४ श्री श्रीनिवासमखिकृत-तात्पर्यचिन्तामणिसहितम् • बदरेणेत्यादि । विकृतान् इत्यर्थः । अत्र बदरबीजेन दारुणा द्वितीय प्रश्ने सुवर्णप्रमाणेन-सुवर्ण यवाष्टतुलितं माषं माषाष्टतुलितं कणम् । कणाष्टतुलितं मानं मानैम्स्वर्ण तथाऽष्टभिः ॥ पण सुवर्णोर्विशद्भिः निष्कं त्रिंशत्पण स्मृतम्' ॥ इति लक्षितम् । बोधायनः –' अथैतं बादरं मणिं सुवर्णोपधानं सूत्रे प्रोत्य' इनि । किञ्च-'इन्द्रस्य सुषुवाणस्य दशधेन्द्रियं वीर्ये परापतत् । स यत्प्रथमं निरष्ठीवत् । तत्कलमभवत् । यद्वितीय तदरम् । इति श्रुनिबंदरमहत्वं वदति । तथा-- 'यद्धिरण्यमा बाति । ज्योनिर्दै हिरण्यम् । ज्योतिरेवामिन् ददाति । अथो तेजो वै हिरण्यम् । तेज एवात्मन् धते' इन् ि। 'अथो अपां वा एततेजो वर्चः । यद्दर्भाः' इत्यादि श्रुनय हिरण्यदयोः महत्वं च प्रतिपादयन्ति । तस्मादेव आच्छाद्य दर्भणेत्याद्युक्तम् । दणाच्छाद्य पुनर्दणे बध्नीयादित्यर्थः । इति श्रीमत्कौशिकवंश्येन गविन्दाचार्यसूनुना वेदान्ताचार्यक्र्येण श्रीनिवासाख्ययज्वना विरचितं श्रीवैखानससूत्रव्याख्याने तात्पर्यचिन्तामणो द्वितीयप्रश्नं चतुर्दशः ग्वण्डः