पृष्ठम्:श्रीवैखानसगृह्यसूत्रम्-भागः १.pdf/४४३

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

अथ पञ्चदशः खण्डः तदग्रावुपरि धारयन् 'आयुष्यं वर्चस्यं- उचैवादि-शुनमहं - प्रियं मा - इयमोषधि 'इनि पञ्चभिर्जुहुयात् ॥ १ ॥ दमबन्ध स्पृष्टा जुहुयात् । सम्राजश्च विगजश्चे' त्यु(प?)दकपात्र परिपाव्य 'ऋतुभिरि ष्ट्वार्तवैः - इयमोषधि'इति ताभ्यां कुण्डलाभ्यां दक्षिणादिकर्णयो ग्लङ्करोति ।। २ ।। मणिहोमानन्तरं बर्हिर्बन्धं विसृज्य, सम्राजञ्च विराजशेत्युपपाले पात्रान्तरं परिप्राय प्रक्षाल्यत्यथ । 'शुभिके' इति मणिना कण्ठमामुच्य 'इदं ब्रह्म पुनीमद्द ' इत्यङ्गुलीयकं गृहीत्या 'यदाञ्भेन'मिति दक्षिणं चक्षुः 'यन्मे मन' इति घामञ्चाञ्जनेनाञ्जयित्वा 'इमाम्सुमनस' इनि स्रजमादाय 'देवस्य त्वे' त्यादर्शभवेक्षेत ।। ३ ।। मणिनेत्यादि । मौक्तिकसुवर्णबदरमालया या अवद्धय । 'इदं ब्रह्म पुनीमहे 'इनि पवित्रं गृहीत्वा ब्रह्मा पुना' ित्वत्यङ्गुल्यां निक्षिपति । सुवर्ण पवित्रमिति श्रूयते । तथा 'दुर्वर्णोऽस्य भ्रातृव्यः । तमात्सुवर्ण हिरण्यं भार्यम् । सुवर्ण एव भवति । एनं प्रियं गच्छति । नामिय'मिति च । स्मृत्यन्तरे– ‘कौश पवित्र ताम्र वा राजतं हैममेव वा । बिभृयाद्दक्षिणे पाणौ पवित्रश्चोत्तरोत्तरम् । अनामिकावृतं हेम तर्जन्या रौप्यमेव च । कनिष्ठिकावृतं खड्गं तेन पूतो भवेन्नरः' । इति

  • न रूप्यं केवलं धार्य दैवे पित्र्ये च कर्मणि ।

अनामिकावृते हेम नर्जन्यां धारयेच तदि' ति ॥