पृष्ठम्:श्रीवैखानसगृह्यसूत्रम्-भागः १.pdf/४४४

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

२६० श्री श्रीनिवासमखिकृत-तात्पर्यचिन्तामनिसहितम् [द्वितीय प्रश्ने अञ्जने श्रुतिः-- ‘इन्द्रो वृत्रमहन् तस्य कनीनिकाऽपतत्' इत्यारभ्य ‘यदाङ्क्त चक्षुरेव भ्रातृव्यस्य वृक्षक्त । दक्षिणं पूर्वमाङ्ते सव्यं हि पूर्व मित्यादि । स्राजमादाय शिरसि धारयेदिति केचित् ! 'शीष्णैस्सज'मिति मन्त्रलिङ्गात् । स्मृतिरत्नावल्याम्-'शुभमिच्छन्नरः प्राज्ञः कण्ठे मालां न धारयेत् । धारयेत्तां शिरस्येव सुगन्धां प्रियदर्शना'मिति । छन्दोगब्राह्मणे । 'प्रजापतिः प्रजा असृजत । ता अस्मै श्रेष्ठयाय नातिष्ठन्त, स आसां िदशः प्रजानाञ्च रसं प्रवृह्य स्रजं कृत्वा प्रत्यमुखत्, ततोऽसै प्रजाः श्रेष्ठयायातिष्ठन्त । तेऽस्मै समानां श्रेष्ठयाय य एवं वेद । सेऽकामयत इन्द्रो मे प्रजायां श्रेष्ठयस्यादिति तामस्मै प्रजां प्रत्यमुखत । ततो वा इन्द्राय प्रजाश्ध्यै यातिष्ठन्त ? इति । स्वहस्तरचितां मालां स्वयं घृष्टञ्च चन्दनम् । नापितस्य गृहे क्षौरं शक्रस्यापि श्रिय हरेत् ' । इति स्कान् -सेतुमाहात्म्ये 'नो वरस्य कण्ठे मा मालां चम्पकनिर्मिताम् । निवेशयमास नदा जनमध्ये मनोरमाम्' ॥ इति कक्षीवतो मनोरमायाश्च पाणिग्रहणे एवमुक्तम् । अतः 'स्कन्धे माल न धारये'दिति वचनं भगवत्प्रसादपाणिग्रहणादिशोभनव्यतिरिक्तकालान्तरविषयम् । श्रीभागवते – 'त्वयोपभुक्तस्रगन्धवासोऽलङ्कारचर्चिताः । उच्छिष्टभोजिनो दासास्तव मायां तरेमहि । । इति तेनैव वैणवं दण्डमृतुं गृह्णीयात् ॥ ४ ॥ तेनैव 'देवस्य त्वे' ति मन्त्रेण । 'तेजो वै वेणु'रिति भुतेः वैणो