पृष्ठम्:श्रीवैखानसगृह्यसूत्रम्-भागः १.pdf/४४६

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

२६२ श्री श्रीनिवासमखिकृत-तात्पर्यचिन्तामणिसहितम् [द्वितीय प्रश्न अथ तीर्थगमननिवारणानन्तरम्-अभ्यागतमुत्तमं – मधुपर्कार्हम् । स्मृतौ– 'पितृव्यस्ातको राजा आचार्यश्वशुरो द्विजः। मातुल मधुपर्काहः वत्सरादूर्वमागताः' । इति विद्याव्रतातक एवोत्तमशब्देन ग्राह्य इन कंचित् । आवसथः निवासार्थगृहम् । विष्टरं द: क्लप्तमासनम् । पाद्यम्-पादप्रक्षालनार्थ जलम् । अध्यम्-यथार्हद्रव्यसहितम्। वोत्तरीयादि न सङ्कल्पयित। उक्तान् सम्भारान् सम्पाधत्यर्थः । इति श्रीमकौशिकवंश्येन गोविदाचार्यसूनुना वेदान्ताचार्यवर्येण श्रीनिवासाख्ययज्वना विरचिते श्रीवैखानससूत्रव्याख्याने तापर्यचिन्तामणौ द्वितीयप्रश्ने पञ्चदशः खण्डः समाप्तः ।