पृष्ठम्:श्रीवैखानसगृह्यसूत्रम्-भागः १.pdf/४५१

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

अथ सप्तदशः खण्डः 'द्यौस्त्वा ददा'त्विति ब्राह्मणान् भोजयित्वा 'इन्द्राग्री वर्चः। इत्येषां प्रणाम कुर्यात् ॥ १ ॥ पुण्याहं वाचयित्वा आज्येन व्याहृतीर्हत्वा बान्धवैस्सह भुञ्जीत ।। २ ।। मधुधाम्रोश्चोदनायां तोयपिष्टौ प्रतिनिधी गृह्णीयात् ।। ३ ।। यज्ञशिष्टमांसयतिरिक्तमांसस्य कलौ निद्धित्वात् मधुधामनी गृह्णीया देत्युक्तम् । मद्ये दोषबाहुल्यमाह मनुः । सुरा वै मलमन्नानां पाप्मा च मलमुच्यते । नमाद्वाह्मणराजन्यौ वैश्यश्च न पिबेत्सुराम् । गौडी माध्वी च पैष्टी च विज्ञेया त्रिविधा सुरा । यथैवैका न पानव्या तथा मर्वा द्विजोत्तमे । यक्षरक्षःपिशाचानां मद्य मांसं मुराऽऽसयम् । तद्राह्मणेन नातव्यं देवानामश्नतां हविः । अमेध्यञ्चापतेन्मत्तो वैदिकं वाप्युदाहरेत् । अकार्यमन्यत्कुर्वाणो ब्राह्मणो मदमोहितः । तस्य कायगतं ब्रह्म मद्यनाशाव्यते सकृत् । तस्य व्यपैति तद्रक्ष शूद्रत्वञ्च निगच्छति ॥ इति पिष्टशब्दोऽपूपार्थः । यखात् ‘आपो वेद्यर्थ सम्भारार्थं पृथिवी वनस्पतयः पश्चर्थ मोवधव' इति वेदानुशासनं भवति ॥ ४ ॥