पृष्ठम्:श्रीवैखानसगृह्यसूत्रम्-भागः १.pdf/४५३

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

अथ अष्टादशः खण्डः अथ प्राणाग्रिहोवविधानम् ॥ १ ॥ स्वयंज्योतिगत्मा यजमानो बुद्धिः पली हृदयपुण्डरीक वेदिः रोमाणि दर्भाः प्राणो गार्हपत्योऽपान आहवनीयो व्यानोऽन्वाहार्य उदानम्सभ्यस्समान आवसत्थ्य इनि पञ्चाग्रयो भवन्ति । जिह्वादी न्द्रियाणि यज्ञपात्राणि रसादयो विषयाः हवींष्यस्य फलमोमित्यर्था वाप्तिः । तदेवमेकाध्वर्युः आत्मयझं संकल्प्य 'अमृतोपस्तरणम 'सीत्यन्न प्रोक्ष्य अन्नमूक्तनाभिमृश्य 'ऊर्जम्कर'मित्याधावं पीत्वा अङ्गुष्ठा नामिकामध्यमैरादायान्नं 'प्राणाय स्वाहा-अपानाय स्वाहा-व्यानाय स्वाहा - उदानाय स्वाहा – समानाय स्वाहा' इति पञ्चाहुतीः पात्रं स्पृणन्नेव हुत्वा ‘ऊर्जस्कर' मिनि पुनश्चाऽध्वं पीत्वाऽनीयान् ॥ २ स्वशरीरस्थेषु प्राणादिरूपेण तेिष्वाग्रषु अन्नादिद्रल्यहाभवित्र अग्रिहोत्रसाम्यं दर्शयितुं यजमानादिकल्पनमाह स्वयं ज्योनिरित्यादिना । स्वयंज्योतिः स्वयंप्रकाशः परमात्मा-यजमानः । 'एष एव साधु कर्म कारयति तम् । यमेभ्यो लोकेभ्य उन्ननीपति' इत्यादि । 'स्मृतिरतीतविषया मतिरागामिसंज्ञिता । यस्तु कतारमात्मान मन्यत साध्वसाधुनः । तस्य दोपवती प्रज्ञा न तत्त्वज्ञेति मे मतिः' । इति यद्वा - 'परमात्मशरीरभूतः प्रत्यगात्मा संऽमिहोत्रस्य यजमान इति ध्यातव्यमिति । अनेन जीवात्मनः कर्तृत्वाभिमाननिरास उच्यते । पत्नी बुद्धिः । 'प्रज्ञा वैकालिकी ज्ञेया बुद्धिस्तात्कालिकी मता'इति स्मृतः। तात्कालिकमनोव्यापाररूपा बुद्धिः । बुद्धः पीत्वपरिकल्पनं जीवात्मनः करणाधिपत्वश्रवणादुच्यते । 'स कारणं करणाधिपाधिपः' इति श्रुतिः । हृदय