पृष्ठम्:श्रीवैखानसगृह्यसूत्रम्-भागः १.pdf/४५५

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

अष्टादशः खण्डः] ययेह क्षुधिता बाला मातरं पर्युपासते । एवं सर्वाणि भूतानि अमिहोक्षमुपासते ? ॥ इति २७१ यक्षपात्राणि-स्रवादय रसादयः - षड्रसाः लवणाम्लकटुतिक्त मधुरकषायाः । यद्वा ‘रस्यास्स्रिग्धाः स्थिरा हृद्या' इत्युक्ताः । विषयाः शब्द स्पर्शरूपरसगन्धा: हवींषि- छान्दोग्ये पञ्चामिविद्यायामुक्ताः । यथा – 'योषा वा व गौतमामिः तस्या उपस्थ एव समित् यदुपमन्त्रयते स धूमो योनिरर्चि यदन्न:करोति तेऽङ्गाराः अभिनन्दा विस्फुलिङ्गाः तस्मिन्नेतस्मिन्ननौ देवा रेतो जुह्वति नस्या आहुतेर्गर्भम्सम्भव'तीति । तत्रैव--'स यदशिशिषनि यत्पिपासति यन्न रमते ता अस्य दीक्षाः । अथ यदक्षति यपिबति यद्रमते तदुपसदैरेति । अथ यद्धसति वजक्षति यन्नैथुनं चरति स्तुतशस्त्रैव तदेति । अथ यतपोदानमार्जक् महिंसा सत्यवचनमिति ता अस्य दक्षिणाः' इति । पुरुषविद्यावात् 'तस्यैवं विदुषो यज्ञस्यात्मा यजमानश्श्रद्धा पती' त्यादि श्रुत्यर्था अत्रानुसन्धेया एवम्भूतस्यान्निहोत्रस्य फलमोमित्यर्थावामिः । 'ओमिति ब्रह्म' ित श्रुतिः । 'ओमितीदं सर्व' भिति सर्वव्याप्तिर्वा । तदेवं-ब्रह्मप्राप्तिकारणत्वात् एकेनैव यजमानेन कर्नु शक्यम् । आत्मयज्ञम्-अन्तर्यामिणः परमात्मनः समाराधनमिति सङ्कल्प्य, अभसूक्तन–“अहमस्मी' त्यभिमृश्य । अन्नाभिमन्त्रणं परिषेचना नन्तरम् । अत्र परिषेचनमनुक्तमिति न शङ्कयम्। प्राणस्य नमत्वनिवृत्यर्थ परिषेचनं श्रूयते । छान्दोग्ये । ‘स होवाच किं मे वासो भविष्यतीत्याप इति होचु तस्माद्वा एतदशिप्यन्तः अध(पुर)स्ताचोपरिष्टाचाद्भिः परिदधति, लभुको ह वासो भक्त्यनमो इ भवति' इति । यजुषि-'ऋतन्वा मत्येन परिषिञ्चामीति सायं परिषिचति, सत्यन्वतेन परिषिश्चामीति प्रातः' इति परिषेचनं विधीयते । स्मृतौ च 'सायं प्रातर्द्धिजातीनामशनं विधिचोदितम् । नान्तरा भोजनं कुर्यादमिहोत्र समो विधिः' इति । पुनश्चाधावं पीत्वेत्यादि । ‘तस्मादशिप्यन्नाचामेदशि त्वाऽऽचामेदेतदेव । तदक्षमन कुरुते । इति श्रुतिः ।