पृष्ठम्:श्रीवैखानसगृह्यसूत्रम्-भागः १.pdf/४६३

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

उदक्यामपि चण्डालं श्वानं कुकुटमेव च । भुञ्जानो यदि पश्येतु तदन्नन्तु परित्यजेत्' । इति कात्यायनः– ‘चण्डालपतितोदक्यावाक्यं श्रुत्वा न भोजयेत् । 'एकपङ्क्तयुपविष्टानां दुष्कृतं यदूदुरात्मनाम्। सर्वेषां तत्समं तावद्यावत्पड़क्तिर्न भिद्यते ॥ अग्निा भस्मना चैव स्नम्बेन सलिलेन वा । द्वारेण चैव मार्गेण पड़क्तिभेदस्तृणेन च' । इति बृद्धमनुः - 'पीत्वाऽपोशनमश्नीयात्पात्रदत्तमगर्हितम् । भार्याभृतकदासेभ्यः उच्छिष्ट शेषयेत्ततः ।। व्यासः - 'नाद्यात्सूर्यग्रहात्पूर्वमहि सायं शशिग्रहात् । ग्रहकाले तु नाश्रीयात् स्रात्वाऽक्षीयाञ्च मुक्तयोः । मुक्त शशिनि भुञ्जीत यदि न स्यान्महानिशा । अमुक्तयोरस्तगयोयदि दृष्टा परेऽहनि' । इति वसिष्ठः-- * 'ग्रस्तोदये विधोः पूर्व योऽहभोजनमाचरेत्। । सूर्यग्रहे तु नाश्रीयात्पूर्व यामचतुष्टयम् । चन्द्रग्रहे तु यामांत्रीन् बालवृद्धातुरैर्विना ' । इति व्यासः – ‘अपराहे न मध्याहे मध्याहे न तु सङ्गवे । भुञ्जीत सङ्गवे चेत्यात् न पूर्व भुजिमाचरेत् ॥ अर्कद्विपर्वरात्रौ च चतुर्दश्यष्टमी दिवा । एकादश्यामहोरात्रं भुक्ता चान्द्रायणं चरेत् । विष्णम् – ‘अहोरात्रं न भुञ्जीत चन्द्रसूर्यो ग्रहास्तौ । मुतिं दृष्टा तु भोक्तव्यं खानं कृत्वा ततः परम् । यास गौतमः

  • ग्रस्तोदये तथा सूर्ये न राशौ भोजनं चरेत् ।

२७९